स शक्रवद्दानवदैत्यसङ्घान् विक्रम्य जित्वा च रणेऽरिसङ्घान्। विगाह्यतां पुष्करीणीं जितारिः कामं स जग्राह ततोऽम्बुजानि
ततः स पीत्वाऽमृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः। उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति
ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुन्नाः। भीमस्य वीर्यं च बलं च संख्ये यथावदाचख्युरतीव दीनाः
तेषां वचस्तत्तु निशाम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच। गृह्णातु भीमो जलजानि कामं कृष्णानिमित्तं विदितं ममैतत्
ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः। भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम्
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ। बहूनि बहुरूपाणि विरजांसि समाददे
ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः। प्रादुरासीद्वरस्पर्शः संग्राममभिचोदयन्
पपात महती चोल्का सनिर्घाता महाभया। निष्प्रभश्चाभवत्सूर्यंश्छन्नरश्मिस्तमोवृतः
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते। चचाल पृथिवी चापि पांसुवर्षं पपात च
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः। तमोवृतमभूत्सर्वं न प्राज्ञायत किंचन
[अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे ।।] तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः। उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः। यथा रूपाणि पश्यामि सुव्यक्तो नः पराक्रमः
एवमुक्त्वा ततो राजा वीक्षांचक्रे समन्ततः। अपश्यमानो भीमं तु धर्मपुत्रो युधिष्ठिरः
ततः कृष्णां यमौ चापि समीपस्थानरिंदमः। पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे
कच्चिन्न भीमः पाञ्चालि किंच कृत्यं चिकीर्षति। कृतवानपि वा वीर साहसं साहसप्रियः
इमे ह्यकस्मादुत्पाता महासमरशंसिनः। दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः
तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी। प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना। तन्मया भीमसेनस्य प्रीतयाऽद्योपपादितम्
अपि चोक्तो मया वीरो यदिपश्येर्बहून्यपि। तानि सर्वाणअयुपादाय शीघ्रमागम्यतामिति
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः। प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः
उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्। गच्छाम सहितास्तूर्णं येन यातो वृकोदरः
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान्। त्वमप्यमरसंकाश वह कृष्णां घटोत्कच
व्यक्तं दूरमितो भीमः प्रविष्ट इतिमे मतिः। चिरं चतस्य कालोऽयं स च वायुसमो जवे
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने। उत्पतेदपिचाकाशं निपतेच्चयथेच्छकम्
तमन्वियाम भवतां प्रभावाद्रजनीचराः। पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम्
तथेत्युक्त्वा तु ते सर्वेहैडिम्बप्रमुखास्तदा। उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः। लोमशेनैव सहिताः प्रययुः प्रीतमानसाः
ते सर्वे त्वरिता गत्वा ददृशुस्तत्र कानने। पद्मसौगन्धिकवतींनलिनीं सुमनोरमाम्
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्। ददृशुर्निहतांश्चैव यक्षांश्च विपुलेक्षणान्
भिन्नकायाक्षिबाहूरुन्संचूर्णितशिरोधरान्। तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्