इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत। तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान्। मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः
कदर्थीकृत्यतु स तान्राक्षसान्भीमविक्रमः। व्यगाहत महातेजास्ते तं सर्वे न्यवारयन्
गृह्णीत बध्नीत विकर्ततेमं पचाम खादाम च भीमसेनम्। क्रुद्धा ब्रुवन्तोऽभिययुर्द्रतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः
प्रगृह्यतानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति ।। ते तं तदा तोमरपट्टसाद्यै- र्व्याविद्धशस्त्रैः सहसा निपेतुः
जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवव्रुरुग्राः। जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवब्रुरुग्राः
वातेन कुन्त्यां बलवान्सुजातः शूरस्तरस्वी द्विषतां निहन्ता। सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः
तेषां स मार्गान्विविधान्महात्मा निहत्य शस्त्राणि च शास्त्रवाणाम्। यथा प्रवीरान्निजघान भीमः परश्शतान्पुष्करिणीसमीपे
ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलंबाहुबलं तथैव। अशक्नुवन्तः सहितं समन्ता- द्द्रुतं प्रवीरा सहसा निवृत्ताः
विदीर्यमाणास्तत एव तूर्ण- माकाशमास्थाय विमूढसंज्ञाः। कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः
स शक्रवद्दानवदैत्यसङ्घान् विक्रम्य जित्वा च रणेऽरिसङ्घान्। विगाह्यतां पुष्करीणीं जितारिः कामं स जग्राह ततोऽम्बुजानि
ततः स पीत्वाऽमृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः। उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति
ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुन्नाः। भीमस्य वीर्यं च बलं च संख्ये यथावदाचख्युरतीव दीनाः
तेषां वचस्तत्तु निशाम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच। गृह्णातु भीमो जलजानि कामं कृष्णानिमित्तं विदितं ममैतत्
ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः। भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम्
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ। बहूनि बहुरूपाणि विरजांसि समाददे
ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः। प्रादुरासीद्वरस्पर्शः संग्राममभिचोदयन्
पपात महती चोल्का सनिर्घाता महाभया। निष्प्रभश्चाभवत्सूर्यंश्छन्नरश्मिस्तमोवृतः
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते। चचाल पृथिवी चापि पांसुवर्षं पपात च
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः। तमोवृतमभूत्सर्वं न प्राज्ञायत किंचन
[अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे ।।] तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः। उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः। यथा रूपाणि पश्यामि सुव्यक्तो नः पराक्रमः
एवमुक्त्वा ततो राजा वीक्षांचक्रे समन्ततः। अपश्यमानो भीमं तु धर्मपुत्रो युधिष्ठिरः
ततः कृष्णां यमौ चापि समीपस्थानरिंदमः। पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे
कच्चिन्न भीमः पाञ्चालि किंच कृत्यं चिकीर्षति। कृतवानपि वा वीर साहसं साहसप्रियः
इमे ह्यकस्मादुत्पाता महासमरशंसिनः। दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः
तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी। प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना। तन्मया भीमसेनस्य प्रीतयाऽद्योपपादितम्
अपि चोक्तो मया वीरो यदिपश्येर्बहून्यपि। तानि सर्वाणअयुपादाय शीघ्रमागम्यतामिति
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः। प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः