तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः। वनवासपरिक्लिष्टां जगाम मनसा प्रियाम्
स गत्वानलिनीं रम्यां राक्षसैरभिरक्षिताम्। कैलासशिरे रम्ये ददर्श शुभकानने
कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरैः। सुरम्यां विपुलच्छायां नानाद्रुमलताकुलाम्
हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम्। नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम्
अतीव रम्यां सुजलां जातां पर्वतसानुषु। विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम्
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम्। ददर्शविमलं तोयं पिबंश्च बहु पाण्डवः
तां तु कपुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम्। जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः
वैडूर्यवरनालैश्च बहुचित्रैर्मनोरमैः। हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः
आक्रीडं राजराजस् कुबेरस्य महात्मनः। गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम्
सेवितामृषिभिर्दिव्यैर्यक्षैः किंपुरुषैस्तथा। राक्षसैः किंनरैश्चापि गुप्तां वैश्रवणेन च
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाहलः। बभूव परमप्रीतो दिव्यंप्रेक्ष्य सरो महत्
तच्च क्रोवशा नाम राक्षसा राजशासनात्। रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम्। रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम्
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम्। पुष्करप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः। यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ
ततः सर्वे महाबाहुं समासाद्यवृकोदरम्। तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि
मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे। यदर्थमाभिसंप्राप्तस्तदाचक्ष्यमहामते
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः। विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः
अपश्यत्तत्रपाञ्चाली सौगन्धिकमनुत्तमम्। अनिलोढमितो नूनं सा बहूनि परीप्सति
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम्। पुष्पाहारमिह प्राप्तं निबोधत निशाचराः
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ। नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर। आमन्त्र्य यक्षप्रवरं पिबन्ति च हरन्ति च
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव। `यक्षाधिपस्यानुमते कुबेरस् महात्मनः
अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम्। विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येन्न संशयः
तमनादृत्य पद्मानि जिहीर्षसि बलादिह। धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम्
[आमन्त्र्य यक्षराजं वै ततः पिव हरस्व च। नातोऽन्यथा त्वया शक्यं किंचित्पुष्करमीक्षितुं
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके। दृष्ट्वाऽपिच महाराजं नाहं याचितुमुत्सहे
न हि याचन्ति राजान एष धर्मः सनातनः। न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन
इयं च नलिनी रम्या जाता पर्वतनिर्झरे। नेयं भवनमासाद्यकुबेरस्य महात्मनः
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च। एवं गतेषु द्रव्येषु कः कं याचितुमर्हति