फुल्लपद्मविचित्राणि सरांसि सरितस्तथा। नानाकुसुमचित्राणि पुष्पितानि वनानि च
मत्तवारणयुथानि पङ्कक्लिन्नानि भारत। वर्षतामिव मेघानां वृन्दानि ददृशे तदा
हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वनम्। सशष्पकवलैः श्रीमान्पथि दृष्ट्वा द्रुतं ययौ
महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्। व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत
कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः। याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः
कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः। प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन्
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु। द्रौपदीवाक्यपाथेयो भीमो भीमपराक्रमः
परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने। काञ्चनैर्विलैः पद्मैर्ददर्श विपुलां नदीम्
हंसकारण्डवयुतां चक्रवाकोपशोभिताम्। रचितामिव तस्याद्रेर्भालां विमलपङ्कजाम्
तस्यां नद्यां महासत्वः सौगन्धिकवनं महत्। अपश्यत्प्रीतिजननं बालार्कसदृशद्युति
तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः। वनवासपरिक्लिष्टां जगाम मनसा प्रियाम्
स गत्वानलिनीं रम्यां राक्षसैरभिरक्षिताम्। कैलासशिरे रम्ये ददर्श शुभकानने
कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरैः। सुरम्यां विपुलच्छायां नानाद्रुमलताकुलाम्
हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम्। नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम्
अतीव रम्यां सुजलां जातां पर्वतसानुषु। विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम्
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम्। ददर्शविमलं तोयं पिबंश्च बहु पाण्डवः
तां तु कपुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम्। जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः
वैडूर्यवरनालैश्च बहुचित्रैर्मनोरमैः। हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः
आक्रीडं राजराजस् कुबेरस्य महात्मनः। गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम्
सेवितामृषिभिर्दिव्यैर्यक्षैः किंपुरुषैस्तथा। राक्षसैः किंनरैश्चापि गुप्तां वैश्रवणेन च
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाहलः। बभूव परमप्रीतो दिव्यंप्रेक्ष्य सरो महत्
तच्च क्रोवशा नाम राक्षसा राजशासनात्। रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम्। रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम्
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम्। पुष्करप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः। यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ
ततः सर्वे महाबाहुं समासाद्यवृकोदरम्। तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि
मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे। यदर्थमाभिसंप्राप्तस्तदाचक्ष्यमहामते
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः। विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः
अपश्यत्तत्रपाञ्चाली सौगन्धिकमनुत्तमम्। अनिलोढमितो नूनं सा बहूनि परीप्सति
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम्। पुष्पाहारमिह प्राप्तं निबोधत निशाचराः