[बलं चातिबलो मेने न मेऽस्ति सदृशो महान्।] ततः पुनरथोवाच पर्यश्रुनयनो हरिः
भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा। गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे
इहस्थश्च कुरुश्रेष्ठ न निवेद्योस्मि कस्यचित्। धनदस्यालयाच्चापि विसृष्टानां महाबल
एष काल इहायातुं देवगन्धर्वयोषिताम्। ममापि सफलं च क्षुः स्मारितश्चास्मि राघवम्
[रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम्। सीतावक्रारविन्दार्कं दशास्यध्वान्तभास्करम् ।।]
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह। तदस्मद्दर्शनं वीर कौन्तेयामाघमस्तु ते
भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत। यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्
धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम्। शिलया नगरं वा तन्मर्दितव्यं मया यदि
[बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम्।] यावदेतत्करोम्यद्यकामं तव महाबल
भीमसेनस्तु तद्वाक्यं श्रुत्वा तस् महात्मनः। प्रत्युवाच हनून्तं प्रहृष्टेनान्तरात्मना
कृतमेव त्वया सर्वं मम वानरपुङ्गव। स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीदमे
सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन्। तवैव तेजसा सर्वान्विजेष्यामो वयं परान्
एवमुक्तस्तु हनुमान्भीमसेनमभाषत। भ्रातृत्वात्सौहृदाच्चैव करिष्यामि प्रियं तव
चमूं विगाह्य शत्रूणां परशक्तिसमाकुलाम्। यदा सिंहरवं वीर करिष्यसि महाबल
तदाहं बृंहयिष्यामि स्वरवेण रवं तव। `यं श्रुत्वैव भविष्यन्ति व्यसवस्तेऽरयो रणे
विजयस्य ध्वजस्थश्च नादान्मोक्ष्पामि दारुणान्। शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ
एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम्। मार्गमाख्याय भीमाय तत्रैवान्तरधीयत
गते तस्मिन्हरिवरे भीमोपि बलिनांवरः। तेन मार्गेण विपुलं व्यचरद्गन्धमादनम्
अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि। माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ
स तानि रमणीयानि वनान्युपवनानि च। विलोलयामास तदा सौगन्धिकवनेप्सया
फुल्लपद्मविचित्राणि सरांसि सरितस्तथा। नानाकुसुमचित्राणि पुष्पितानि वनानि च
मत्तवारणयुथानि पङ्कक्लिन्नानि भारत। वर्षतामिव मेघानां वृन्दानि ददृशे तदा
हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वनम्। सशष्पकवलैः श्रीमान्पथि दृष्ट्वा द्रुतं ययौ
महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्। व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत
कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः। याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः
कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः। प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन्
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु। द्रौपदीवाक्यपाथेयो भीमो भीमपराक्रमः
परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने। काञ्चनैर्विलैः पद्मैर्ददर्श विपुलां नदीम्
हंसकारण्डवयुतां चक्रवाकोपशोभिताम्। रचितामिव तस्याद्रेर्भालां विमलपङ्कजाम्
तस्यां नद्यां महासत्वः सौगन्धिकवनं महत्। अपश्यत्प्रीतिजननं बालार्कसदृशद्युति