वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल। यथा स यज्ञो नृपतेर्निवत्रिष्यति सत्तम
स संभावय नागेन्द्र मयि सर्वं महामते। न ते मयि मनो जातु मिथ्या भवितुमर्हति
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते। दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः
न सन्तापस्त्वया कार्यः कथंचित्पन्नगोत्तम। प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्। नाशयिष्यामि माऽत्र त्वं भयंकार्षीः कथंचन
ततः स वासुकेर्घोरमपनीय मनोज्वरम्। आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः। मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः
स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम्। वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः
स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः। अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः
स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः। तुष्टाव राजानमनन्तकीर्ति- मृत्विक्सदस्यांश्च तथैव चाग्निम्
सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः
शक्रस्य यज्ञः शतसङ्ख्य उक्त- स्तथापरं तुल्यसङ्ख्यं शतं वै। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः
यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः
गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञसल्तथा वैश्रवणस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः
नृगस्य यज्ञस्त्वजमीढस्य चासी- द्यथा यज्ञो दाशरथेश्च राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः
यज्ञः श्रुतो दिवि देवस्य सूनो- र्युधिष्ठिरस्याजमीढस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः
इमे च ते सूर्यसमानवर्चसः समासते वृत्रहणः क्रतुं यथा। नैषां ज्ञातुं विद्यते ज्ञानमद्य दत्तं येभ्यो न प्रणश्येत्कदाचित्
ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे। एतस्य शिष्या हि क्षितिं संचरन्ति सर्वर्त्विजः कर्मसु स्वेषु दक्षाः
विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता हुतभुक्कृष्णवर्त्मा। प्रदक्षिमावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः
नैह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम्। धृत्या च ते प्रतीमनाः सदाहं त्वं वा वरुणो धर्मराजो यमो वा
शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्। मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो भूपतिरस्ति जज्ञे
खट्वाङ्गनाभगदिलीपकल्प ययातिमान्धातृसमप्रभाव। आदित्यतेजःप्रतिमानतेजा भीष्मो यथा राजसि सुव्रतस्त्वम्
वाल्मीकिवत्ते निभृतं स्ववीर्यं वसिष्ठवत्ते नियतश्च कोपः। प्रभुत्वमिन्द्रत्वसमं मतं मे द्युतिश्च नारायणवद्विभाति
यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः। श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनाम्
दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च। और्वत्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथेन
एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः। तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ
बालोऽप्ययं स्थविर इवावभाषते नायं बालः स्थविरोऽयं मतो मे। इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्राः संविदध्वं यथावत्
यथा च नस्तक्षक एति शीघ्रम्
व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽब्युवाच। होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत्