धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान्। स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा। बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम्
बुद्ध्या स्वप्रतिपन्नेषु कुर्यात्साधुष्वनुग्रहम्। निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत्
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते। तदा भवति लोकस्य मर्यादा सुव्यवस्थिता
एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः। तं स्वधर्मविभागेन विनयस्थोऽनुपालय
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम्। दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम्
द्विजशुश्रूषया शूद्रा लभन्ते गतिमुत्तमाम्'। क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः
सम्यक्प्रणीतदण्डा हि कामद्वेपविवर्जिताः। अलुब्धा विगतक्रोधाः सतां यान्ति सलोकतां
ततः संहृत्य विपुलं तद्वपुः कामवर्धितम्। भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः
परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत। श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम्
[बलं चातिबलो मेने न मेऽस्ति सदृशो महान्।] ततः पुनरथोवाच पर्यश्रुनयनो हरिः
भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा। गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे
इहस्थश्च कुरुश्रेष्ठ न निवेद्योस्मि कस्यचित्। धनदस्यालयाच्चापि विसृष्टानां महाबल
एष काल इहायातुं देवगन्धर्वयोषिताम्। ममापि सफलं च क्षुः स्मारितश्चास्मि राघवम्
[रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम्। सीतावक्रारविन्दार्कं दशास्यध्वान्तभास्करम् ।।]
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह। तदस्मद्दर्शनं वीर कौन्तेयामाघमस्तु ते
भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत। यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्
धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम्। शिलया नगरं वा तन्मर्दितव्यं मया यदि
[बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम्।] यावदेतत्करोम्यद्यकामं तव महाबल
भीमसेनस्तु तद्वाक्यं श्रुत्वा तस् महात्मनः। प्रत्युवाच हनून्तं प्रहृष्टेनान्तरात्मना
कृतमेव त्वया सर्वं मम वानरपुङ्गव। स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीदमे
सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन्। तवैव तेजसा सर्वान्विजेष्यामो वयं परान्
एवमुक्तस्तु हनुमान्भीमसेनमभाषत। भ्रातृत्वात्सौहृदाच्चैव करिष्यामि प्रियं तव
चमूं विगाह्य शत्रूणां परशक्तिसमाकुलाम्। यदा सिंहरवं वीर करिष्यसि महाबल
तदाहं बृंहयिष्यामि स्वरवेण रवं तव। `यं श्रुत्वैव भविष्यन्ति व्यसवस्तेऽरयो रणे
विजयस्य ध्वजस्थश्च नादान्मोक्ष्पामि दारुणान्। शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ
एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम्। मार्गमाख्याय भीमाय तत्रैवान्तरधीयत
गते तस्मिन्हरिवरे भीमोपि बलिनांवरः। तेन मार्गेण विपुलं व्यचरद्गन्धमादनम्
अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि। माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ
स तानि रमणीयानि वनान्युपवनानि च। विलोलयामास तदा सौगन्धिकवनेप्सया