मा तात साहसं कार्षीः स्वधर्मं परिपालय। स्वधर्मस्थापनं धर्मं बुध्यस्वागमयस्व च
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च। धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः। स विज्ञेयो विभागेन यत्रमुह्यन्त्यबुद्धयः
आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः। वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः
बल्याकरवणिज्याभिः कृष्यर्थैर्योनिपोषणैः। वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः
त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम्। ताभिः सम्यक्प्रवृत्ताभिर्लोकयात्रा विधीयते
सा चेद्धर्मकृता न स्यात्रयीधर्ममृते भुवि। दण्डनीतिमृतेचापि निर्मर्यादमिदं भवेत्
वार्ताधर्मे ह्यवर्तिन्यो विनश्येयुरिमाः प्रजाः। सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णकः। यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः
याजनाध्यापने चोभे ब्राह्मणानां परिग्रहः। पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम्
शुश्रूषा च द्विजातीनां शूद्राणआं धर्म उच्यते। भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिताः
क्षत्रधर्मोऽत्रकौन्तेय तव धर्मोऽत्र रक्षणम्। स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः
वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः। आस्थितः शास्तिदण्डेन व्यसनी परिभूयते
निग्रहानुग्रहैः सम्यग्यदा नेता प्रवर्तते। तदा भवन्ति लोकस्य मर्यादाः सुव्यवस्थिताः
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च। नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा
राज्ञामुपायश्चारश्च बुद्धिमन्त्रपराक्रमाः। निग्रहप्रग्रहौ चैव दाक्ष्यं वै कार्यसाधकम्
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च। साधनीयानि कार्याणि समासव्यासयोगतः
मन्त्रमूला नयाः सर्वेचाराश्च भरतर्षभ। सुमन्त्रितनयैः सद्भिस्तद्विधैः सह मन्त्रयेत्
स्त्रिया मूढेन बालेन लुब्धेन लघुनाऽपि वा। न मन्त्रयीत गुह्यानि येषु चास्पनदलक्षणम्
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत्। स्निग्धैश्च नीतिविन्यासैर्मूर्खान्सर्वत्र वर्जयेत्
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान्। स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा। बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम्
बुद्ध्या स्वप्रतिपन्नेषु कुर्यात्साधुष्वनुग्रहम्। निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत्
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते। तदा भवति लोकस्य मर्यादा सुव्यवस्थिता
एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः। तं स्वधर्मविभागेन विनयस्थोऽनुपालय
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम्। दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम्
द्विजशुश्रूषया शूद्रा लभन्ते गतिमुत्तमाम्'। क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः
सम्यक्प्रणीतदण्डा हि कामद्वेपविवर्जिताः। अलुब्धा विगतक्रोधाः सतां यान्ति सलोकतां
ततः संहृत्य विपुलं तद्वपुः कामवर्धितम्। भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः
परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत। श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम्