दशवर्षसहस्राणि दशवर्षशतानि च। राज्यं कारितवान्रामस्ततः स्वभवनं गतः
तदिहाप्सरसस्तात गन्धर्वाश्च सदाऽनघ। तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम्
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन। ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम्
त्वामनेन पथा यान्तं यक्षो वा राक्षसोपि वा'। धर्षयेद्वा शपेद्वाऽपि मा कश्चिदिति भारत
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः। यदर्थमागतश्चासि अत एव सरश्च तत्
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन। यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः। तद्रूपं दर्शयामास यद्वै सागरलङ्घने
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः। `तद्रूपं यत्पुरा तस्य बभूवोदधिलङ्घने
देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः। सद्रुमं कदलीषण्डं छादयन्नमितद्युतिः
गिरिश्चोच्छ्रयमाक्रम्य तस्थौ तत्र च वानरः। समुच्छ्रितमहाकायो द्वितीय इव पर्वतः
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः। दीर्घं लाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः
तद्रूपं महदालक्ष्यभ्रातुः कौरवनन्दनः। विसिष्मिये तदा भीमो जहृषे च पुनः पुनः
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम्। प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत्
आबभाषे च हनुमान्भीमसेनं स्मयन्निव। एतावदिह शक्तस्त्वं द्रुष्टुं रूपं ममानघ
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम्। भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा
तदद्भुतं महारौद्रं विन्ध्यपर्वतसन्निभम्। दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः
प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः। कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम्
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो। संहरस्व महावीर्य स्वयमात्मानमात्मना
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम्। अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम्
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै। यद्रामस्त्वयि पार्श्वश्थे स्वयं रावणमभ्यगात्
त्वमेव शक्तस्तां लङ्कां सयोधां सहरावणाम्। स्वबाहुबलमाश्रित् विनाशयितुमञ्जसा
न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते। न चैव तव पर्याप्तो रावयणः सगणो युधि
एवमुक्तस्तु भीमेन हनूमान्प्लवगोत्तमः। प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा
एवमेतन्महाबाहो यथा वदसि भारत। भीमसेन न पर्याप्तो ममासौ राक्षसाधमः
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः। बृहस्पत्युशनःप्रोक्तैर्नयैर्धार्यन्ति मानवाः
तेन वीरेण तं हत्वा सगणं राक्षसाधमम्। आनीता स्वपुरं सीता कीर्तिश्च स्थापिता नृषु
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः। अरिष्टं क्षेममध्वानं वायुना परिरक्षितः
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते। द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः
न च ते तरसा कार्यः कुसुमापचयः स्वयम्। दैवतानि हि मान्यानि पुरुषेण विशेषतः
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ। दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत