यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणे ततः। कपेः पार्श्वगतो भीमस्तस्थौ व्रीडडानताननः
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्। प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम
सिद्धो वा यदि वा देवो गन्धर्वो वाऽथ गुह्यकः। पृष्टः सन्को मया ब्रूहि कस्त्वं वानररूपधृत्
न चेद्गुह्यं महाबाहो श्रोतव्यं चेद्भवेन्मम। शिष्यवत्त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ
यत्ते मम परिज्ञाने कौतूहलमरिंदम। तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन
अहं केसरिणः क्षेत्रे वायुना जगदायुषा। जातः कमलपत्राक्ष हनूमान्नाम वानरः
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्। सर्ववानरराजानौ सर्ववानरयूथपाः
उपतस्थुर्महावीर्या मम चामित्रकर्शन। सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे। ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम्
अथ दाशरथिर्वीरो रामो नाम महाबलः। विष्णुर्मानुषरूपेण चचार वसुधातलम्
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः। सधनुर्धन्विनांश्रेष्ठो दण्डकारण्यमाश्रितः
तस्य भार्या जनस्थानाच्छलेनापहृता बलात्। राक्षसेन्द्रेण बलिना रावणेन दुरात्मना
सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा। वञ्चयित्वा नरव्याघ्रं मारीचेन तदाऽनघ
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः। दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम्
तेन तस्याभवत्सख्यं राघवस्य महात्मनः। स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत्
स राज्यं प्राप्य सुग्रीवः सीतायाः परिमार्गणे। वानरान्प्रेषयामास शतशोऽथ सहस्रशः
ततो वानरकोटीभिः सहितोऽहं नरर्षभ। सीतां मार्गन्महाबाहो प्रस्थितो दक्षिणां दिशम्
ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना। संपातिना समाख्याता रावणस्य निवेशने
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः। शतयोजनविस्तारमर्णवं सहसा प्लुतः
अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम्। सुतां जनकराजस्य सीतां सुररसुतोपमाम्
दृष्टवान्भरतश्रेष्ठ रावणस्य निवेशने। समेत्य तामहं देवीं वैदेहीं राघवप्रियाम्
दग्ध्वा लङ्कामशेषेण सादृप्राकारतोरणाम्। प्रत्यागतश्चास्य पुनर्नाम तत्रप्रकाश्य वै
मद्वाक्यं चावधार्याशु रामो राजीवलोचनः। अबद्धपूर्वमन्यैश्च बद्ध्वा सेतुं महोदधौ। वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम्
ततो ररामेण वीर्येण हत्वा तान्सर्वराक्षसान्। रणे तु राक्षसगणं रावणं लोकरावणम्
निशाचरेनद्रं हत्वा तु सभ्रातृसुतबान्धवम्। राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम्
धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलः। प्रत्याहृत्य ततः सीतां नष्टां वेदश्रुतिं यथा
तयैव सहितः साध्व्या पत्न्या रामो महायशाः। गत्वा ततोऽतित्वरितः स्वां पुरीं रघुनन्दनः। अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः
ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः। वरं मया याचितोऽसौ रामो राजीवलोचनः
यावद्रामकथेयं ते भवेल्लोकेषु शत्रुहन्। तावज्जीवेयमित्येवं तथाऽस्त्विति च सोब्रवीत्
सीताप्रसादाच्च सदा मामिहस्थमरिंदम। उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः