रामपत्नीकृते येन शतयोजनविस्तृतः। सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः
स मे भ्राता महावीर्यस्तुल्योऽहं तस् तेजसा। बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे
इमं देशमनुप्राप्तः कारणेनास्मि केनचित्।' उत्तिष्ठ देहि मे मार्गं पश्य मे चाद्य पौरुषम्। मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम्
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम्। हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत्
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयाऽनघ। ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम्
[एवमुक्ते हनुमता हीनवीर्यपराक्रमम्। मनसाऽचिनतयद्भीमः स्वबाहुबलदर्पितः
पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम्। सालोक्यमन्तकस्यैनं नयाम्यद्येह वानरम् ।।]
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना। न चाशकच्चालयितुं भीमः पुच्छं महाकपेः
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम्। नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रकुटीमुखः। स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुंशशाक तम्
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणे ततः। कपेः पार्श्वगतो भीमस्तस्थौ व्रीडडानताननः
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्। प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम
सिद्धो वा यदि वा देवो गन्धर्वो वाऽथ गुह्यकः। पृष्टः सन्को मया ब्रूहि कस्त्वं वानररूपधृत्
न चेद्गुह्यं महाबाहो श्रोतव्यं चेद्भवेन्मम। शिष्यवत्त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ
यत्ते मम परिज्ञाने कौतूहलमरिंदम। तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन
अहं केसरिणः क्षेत्रे वायुना जगदायुषा। जातः कमलपत्राक्ष हनूमान्नाम वानरः
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्। सर्ववानरराजानौ सर्ववानरयूथपाः
उपतस्थुर्महावीर्या मम चामित्रकर्शन। सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे। ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम्
अथ दाशरथिर्वीरो रामो नाम महाबलः। विष्णुर्मानुषरूपेण चचार वसुधातलम्
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः। सधनुर्धन्विनांश्रेष्ठो दण्डकारण्यमाश्रितः
तस्य भार्या जनस्थानाच्छलेनापहृता बलात्। राक्षसेन्द्रेण बलिना रावणेन दुरात्मना
सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा। वञ्चयित्वा नरव्याघ्रं मारीचेन तदाऽनघ
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः। दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम्
तेन तस्याभवत्सख्यं राघवस्य महात्मनः। स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत्
स राज्यं प्राप्य सुग्रीवः सीतायाः परिमार्गणे। वानरान्प्रेषयामास शतशोऽथ सहस्रशः
ततो वानरकोटीभिः सहितोऽहं नरर्षभ। सीतां मार्गन्महाबाहो प्रस्थितो दक्षिणां दिशम्
ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना। संपातिना समाख्याता रावणस्य निवेशने
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः। शतयोजनविस्तारमर्णवं सहसा प्लुतः
अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम्। सुतां जनकराजस्य सीतां सुररसुतोपमाम्