किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च। लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम्
ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्धुवम्। अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम्
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्। केसरोत्करसंमिश्रमशोकानामिवोत्करम्
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्। दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम्। निरीक्षन्तमपत्रस्तं लोचनैर्मधुपिङ्गलैः
तं वानरवरं धीमानतिकायं महाबलम्। स्वर्गपन्थानमावृत्य हिमवन्तमिव स्तितम्
दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने। अथोपसृत्यतरसा भीमो भीमपराक्रमः
सिंहनादं चकारोग्रं वज्राशनिसमं बली। तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः
हनूमांश्च महासत्व ईषदुन्मील्य लोचने। दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः
ततः पवनजः श्रीमानन्तिकस्थं महौजसम्'। स्मितेन चैनमासाद्यहनूमानिदमब्रवीत्
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः। ननु नाम त्वया कार्या दया भूतेषु जानता
वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः। नरास्तु बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु। धर्मघातिषु सज्जन्ते बुद्दिमन्तो भवद्विधाः
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया। अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान्
ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः। वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि
क्व च त्वयाऽद्यगन्तव्यं प्रब्रूहि पुरुषर्षभ। अतः परमगम्योऽयं पर्वतः सुदुरारुहः
विना सिद्धगतिं वीर गतिरत्र न विद्यते। [देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा]
कारुण्यात्त्वामहं वीर वारयामि निबोध मे। नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो
स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ। इमान्यमृतकल्पानि मूलानि च फलानि च
भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम्। ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः। भीमसेनस्तदा वीरः प्रोवाचामितविक्रमः
को भवान्किंनिमित्तं वा वानरं वपुराश्रितः। ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वाऽनुपृच्छति
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः। पाण्डवो वायुतनयो भीमसेन इति श्रुतः
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत्। हनुमान्वायुतनयो वायुपुत्रमभाषत
वानरोऽहं न ते मार्गं प्रदास्यामि यथोप्सितम्। साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम्
वैशसं वाऽस्तु यद्वान्यन्न त्वां रपृच्चामि वानर। प्रयच्छ मार्गमुत्तिष्ठ मा मत्तः प्राप्स्यसे व्यथाम्
नास्ति शक्तिर्ममोत्थातुं जरया क्लेशितो ह्यहम्। यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम्
निर्गुणः परमात्मा तु देहं ते व्याप्य तिष्ठते। तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये
यद्यागमैर्न विद्यां च तमहं भूतभावनम्। क्रमेयं त्वां गिरिं चैव हनीमानिव सागरम्
क एष हनुमान्नाम सागरो येन लङ्घितः। पृच्चामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते
भ्राता मम गुणश्लाघ्यो बुद्धिसत्वबलान्वितः। रामायणेऽतिविख्यातः श्रीमान्वानरपुङ्गवः