माऽत्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः। कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः
प्राजृम्भत महाकायो हनूमान्नाम वानरः। कदलीषण्डमध्यस्थो निद्रावशगतस्तदा
तेन शब्देन महता व्यबुध्यत महाकपिः'। जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्। आस्फोटयच्चलाङ्गूलमिन्द्राशनिसमस्वनम्
तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः। उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः
लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः। विघूर्णमानशिखरः समन्तात्पर्यशीर्यत
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम्। अन्तर्धायविचित्रेषु चचार गिरिसानुषु
स भीमसेनस्तच्छ्रुत्वा संप्रहृष्टतनूरुहः। शब्दप्रभवमन्विच्छंश्चचार कदलीवनम्
कदलीवनमध्यस्थमथ पीने शिलातले। ददर्श सुमहाबाहुर्वानराधिपतिं तदा
विद्युत्संपातदुष्प्रेक्षं विद्युत्संपातपिङ्गलम्। विद्युत्संपातनिनदं विद्युत्संपातचञ्चलम्
बाहुस्वस्तिकविन्यस्तपीनवृत्तशिरोधरम्। स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम्
किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च। लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम्
ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्धुवम्। अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम्
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्। केसरोत्करसंमिश्रमशोकानामिवोत्करम्
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्। दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम्। निरीक्षन्तमपत्रस्तं लोचनैर्मधुपिङ्गलैः
तं वानरवरं धीमानतिकायं महाबलम्। स्वर्गपन्थानमावृत्य हिमवन्तमिव स्तितम्
दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने। अथोपसृत्यतरसा भीमो भीमपराक्रमः
सिंहनादं चकारोग्रं वज्राशनिसमं बली। तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः
हनूमांश्च महासत्व ईषदुन्मील्य लोचने। दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः
ततः पवनजः श्रीमानन्तिकस्थं महौजसम्'। स्मितेन चैनमासाद्यहनूमानिदमब्रवीत्
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः। ननु नाम त्वया कार्या दया भूतेषु जानता
वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः। नरास्तु बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु। धर्मघातिषु सज्जन्ते बुद्दिमन्तो भवद्विधाः
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया। अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान्
ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः। वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि
क्व च त्वयाऽद्यगन्तव्यं प्रब्रूहि पुरुषर्षभ। अतः परमगम्योऽयं पर्वतः सुदुरारुहः
विना सिद्धगतिं वीर गतिरत्र न विद्यते। [देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा]
कारुण्यात्त्वामहं वीर वारयामि निबोध मे। नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो
स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ। इमान्यमृतकल्पानि मूलानि च फलानि च
भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम्। ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः। भीमसेनस्तदा वीरः प्रोवाचामितविक्रमः