काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः। वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः
तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम्। महागज इवोद्दामश्चिक्रीड बलवद्बली
विक्रीड्यतस्मिन्रुचिरमुत्ततारामितद्युतिः। `क्षोभयन्सलिलं भीमः प्रभिन्न इववारणः
ततो जगाहे वेगेन तद्वनं बहुपादपम्। दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः। [आस्फोटयच्च बलवान्भीमः संनादयन्दिशः ।।]
तस्य शङ्खस्य शब्दन भीमसेनरवेण च। बाहुशब्दन चोग्रेण नदन्तीव गिरेर्गुहाः
तं वज्रनिष्पेषसममास्फोटितमहारवम्। श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत। मुक्तो विरावः सुमहान्पर्वतो येन पूरितः
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः
दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात्। अनेन हि पथा मा वै गच्छेदिति विचार्य सः
आस्त एकायने मार्गे कदलीषण्डमण्डिते। भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै
माऽत्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः। कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः
प्राजृम्भत महाकायो हनूमान्नाम वानरः। कदलीषण्डमध्यस्थो निद्रावशगतस्तदा
तेन शब्देन महता व्यबुध्यत महाकपिः'। जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्। आस्फोटयच्चलाङ्गूलमिन्द्राशनिसमस्वनम्
तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः। उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः
लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः। विघूर्णमानशिखरः समन्तात्पर्यशीर्यत
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम्। अन्तर्धायविचित्रेषु चचार गिरिसानुषु
स भीमसेनस्तच्छ्रुत्वा संप्रहृष्टतनूरुहः। शब्दप्रभवमन्विच्छंश्चचार कदलीवनम्
कदलीवनमध्यस्थमथ पीने शिलातले। ददर्श सुमहाबाहुर्वानराधिपतिं तदा
विद्युत्संपातदुष्प्रेक्षं विद्युत्संपातपिङ्गलम्। विद्युत्संपातनिनदं विद्युत्संपातचञ्चलम्
बाहुस्वस्तिकविन्यस्तपीनवृत्तशिरोधरम्। स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम्
किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च। लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम्
ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्धुवम्। अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम्
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्। केसरोत्करसंमिश्रमशोकानामिवोत्करम्
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्। दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम्। निरीक्षन्तमपत्रस्तं लोचनैर्मधुपिङ्गलैः
तं वानरवरं धीमानतिकायं महाबलम्। स्वर्गपन्थानमावृत्य हिमवन्तमिव स्तितम्
दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने। अथोपसृत्यतरसा भीमो भीमपराक्रमः
सिंहनादं चकारोग्रं वज्राशनिसमं बली। तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः
हनूमांश्च महासत्व ईषदुन्मील्य लोचने। दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः
ततः पवनजः श्रीमानन्तिकस्थं महौजसम्'। स्मितेन चैनमासाद्यहनूमानिदमब्रवीत्
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः। ननु नाम त्वया कार्या दया भूतेषु जानता