लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः। उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः
जलावलम्बोऽतिभृशं सविद्युदिव तोयदः। `व्यनदत्स महानादं भीमसेनो महाबलः
तेन शब्देन महता भीमस्य प्रतिबोधिताः। गुहां संतत्यजुर्व्याघ्रा निलिल्युर्वनवासिनः
समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः। ऋक्षाश्चोत्ससृजर्वृक्षांस्तत्यजुर्हरयो गुहाम्। व्यजृम्भन्त महासिंहा महिषाश्च वनेचराः
तेन वित्रासिता नागाः करेणुपरिवारिताः। तद्वनं संपरित्यज्य जग्मुरन्यन्महावनम्
वराहमृगसङ्घाश्च महिषाश्च वनेचराः। व्याघ्रगोमायुसङ्घाश्च प्रणेदुर्गवयैः सह
रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः। शुकाः पारावताः कौञ्चा विसंज्ञा भेजिरे दिशः
तथाऽन्ये दर्पिता नागाः करेणुशरपीडिताः। सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन्
शकृन्मूत्रं च मुञ्चाना भयविभ्रान्तमानसाः। व्यादितास्या महारौद्र व्यनदन्भीषणान्रवान्
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः। गजेनान्यान्गजान्श्रीमान्सिंहं सिंहेन वा विभुः। तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली
ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः। भयाद्विससृजुर्भीमं शकृन्मूत्रं च सुस्रुवुः
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः। वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः
अथापश्यन्महाबाहुर्गनधमादनसानुषु। सुरम्यं कदलीषणअडं बहुयोजनविस्तृतम्
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः। महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान्
उत्पाट्य कदलीस्तम्भान्बहुतालसमुच्छ्रयान्। चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः। विमर्दन्सुमहातेजा नृसिंह इव दर्पितः
ततः संन्यपतंस्तत्रसुबहूनि महान्ति च। रुरुवारणयूथानि महिषाश्च जलाश्रयाः
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः। वनं पाण्डुसुतः श्रीमान्नादेनापूरयन्दिशः
तेन शब्देन चैवाथ भीमसेनरवेण च। वनान्तरगताश्चापि वित्रेसुर्मृहपक्षिः
तस्मिननथ प्रवृत्ते तु संक्षोभे मृगपक्षिणाम्। जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः। तानेवानुसरन्रम्यं ददर्श सुमहत्सरः
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः। वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः
तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम्। महागज इवोद्दामश्चिक्रीड बलवद्बली
विक्रीड्यतस्मिन्रुचिरमुत्ततारामितद्युतिः। `क्षोभयन्सलिलं भीमः प्रभिन्न इववारणः
ततो जगाहे वेगेन तद्वनं बहुपादपम्। दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः। [आस्फोटयच्च बलवान्भीमः संनादयन्दिशः ।।]
तस्य शङ्खस्य शब्दन भीमसेनरवेण च। बाहुशब्दन चोग्रेण नदन्तीव गिरेर्गुहाः
तं वज्रनिष्पेषसममास्फोटितमहारवम्। श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत। मुक्तो विरावः सुमहान्पर्वतो येन पूरितः
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः
दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात्। अनेन हि पथा मा वै गच्छेदिति विचार्य सः
आस्त एकायने मार्गे कदलीषण्डमण्डिते। भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै