अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः। प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्। आजिहीर्षुर्जगामाशु सपुष्पाण्यपराण्यपि
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्। मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः। [ददृशुः सर्वभूतानि महाबाणधनुर्धरम्
न ग्लानिर्न च वैक्लब्यं न भयं न च संभ्रमः। कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ।।]
द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः। व्यपेतभयसमोहः शैलमभ्यपतद्बली
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्। गिरिं चचारारिहरः किन्नराचरितं शुभम्
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः। सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम्
सर्वर्तुरमणीयेषु गन्धमादनसानुषु। सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन्
पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च। बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः
आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम्। गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः
वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना। पितुः संस्पर्शशीतेन गन्धमादनवायुना
ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्। विलोकयामास तदा पुष्पहेतोररिंदमः
विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः। विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः। मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः
अभिरामदरीकुञ्जनिर्झरोदककन्दरम्। अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम्
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्। स्रस्तांशुकमिवाश्रोभ्यैर्निम्नगानिःसृतैर्जलैः
सशष्पकबलैः स्वस्थैरदूरपरिवर्तिभिः। भयानभिक्षज्ञैर्हरिणैः कौतूहलनिरीक्षितः
चालयानः स्ववेगेन लताजालान्यनेकशः। आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः। प्रांशुः कनकवर्णाभः सिंहसंहननो युवा
मत्तवारणविक्रन्तो मत्तवारणवेगवान्। मत्तवारणताम्राक्षो मत्तवारणवारणः
प्रियपार्श्वोपविष्टाभिर्वायवृत्ताभिर्विचेष्टितैः। यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः
नवावतारं रूपस् विक्रीडन्निव पाण्डवः। चचार रमणीयेषु गन्धमादनसानुषु
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्। द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः
सोऽचिन्तयत्तथा पार्थे मयि त्वतिविलम्बिते। पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः
स्नेहान्नरवरो नूनमविश्वासाद्बलस्य च। नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः
कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्। प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः
[सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु। द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ।।]
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु। त्रासयन्गजयूथानि वातरंहा वृकोदरः
सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः। उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली