तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा। वासुकेर्नागराजस्य वचनादिदमब्रवीत्
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः। कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे। तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी। भगिनी नागराजस्य जरत्कारुरविक्लबा
पन्नगानामशेषाणां माता कद्रूरिति श्रुता। तया शप्ता रुषितया सुता यस्मान्निबोध तत्
उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम। विनतार्थाय पणिते दासभावाय पुत्रकाः
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः। तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ
तां च शप्तवतीं देवः साक्षाल्लोकपितामहः। एवमस्त्विति तद्वाक्यं प्रोवाचानु मुमोद च
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा। अमृते मथिते तात देवाञ्छरणमीयिवान्
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्। भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसंभवम्। राज्ञा वासुकिना सार्धं शापोऽसौन भवेदिति
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्। अभिशापः स मातुस्तु भगवन्न भवेत्कथम्
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति। तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान्
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः। प्रादान्माममरप्रख्य तव पित्रे महात्मने
प्रागेवानागते काले तस्मात्त्व मय्यजायथाः। अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि
भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात्। न मोघं तु कृतं तत्स्याद्यदहं तव धीमते। पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे
एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा। अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम। तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते
भव स्वस्थमना नाग न हि ते विद्यते भयम्। प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा। तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल। यथा स यज्ञो नृपतेर्निवत्रिष्यति सत्तम
स संभावय नागेन्द्र मयि सर्वं महामते। न ते मयि मनो जातु मिथ्या भवितुमर्हति
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते। दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः
न सन्तापस्त्वया कार्यः कथंचित्पन्नगोत्तम। प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्। नाशयिष्यामि माऽत्र त्वं भयंकार्षीः कथंचन
ततः स वासुकेर्घोरमपनीय मनोज्वरम्। आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः। मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः
स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम्। वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः
स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः। अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः
स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः। तुष्टाव राजानमनन्तकीर्ति- मृत्विक्सदस्यांश्च तथैव चाग्निम्