पादपैः पुष्पविकचैः फलभारावनामितैः। शोभितः पर्वतो रम्यः पुंस्कोकिलकुलाकुलैः। स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः
सरांसि च विचित्राणि प्रसन्नसलिलानि च। कमलैः सोत्पलैस्तत्रभ्राजमानानि सर्वशः। पश्यन्तश्चारुरूपाणइ रेमिरे तत्र पाण्डवाः
पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः। ह्लादयन्पाण्डवान्सर्बान्सकृष्णान्सद्विजर्षभान्
ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया। सहस्रपत्रमर्काभं दिव्यं पद्ममुपाहरत्
तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम्। अनिलेनाहृतंभूमौ पतितं जलजं शुचि
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्। अतीव मुदिता राजन्भीमसेनमथाब्रवीत्
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्। गन्धसंस्थानसंपन्नं मनसो मम नन्दनम्
इदं च धर्मराजाय प्रदास्यामि परंतप। `गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ'। हरेरिदं मे कामाय काम्यके पुनराश्रमे
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर। तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्
एवमुक्त्वा तु पाञ्चली भीमसेनमनिन्दिता। जगाम पुष्पमादाय धर्मराजाय तत्तदा
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः। प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्। आजिहीर्षुर्जगामाशु सपुष्पाण्यपराण्यपि
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्। मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः। [ददृशुः सर्वभूतानि महाबाणधनुर्धरम्
न ग्लानिर्न च वैक्लब्यं न भयं न च संभ्रमः। कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ।।]
द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः। व्यपेतभयसमोहः शैलमभ्यपतद्बली
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्। गिरिं चचारारिहरः किन्नराचरितं शुभम्
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः। सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम्
सर्वर्तुरमणीयेषु गन्धमादनसानुषु। सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन्
पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च। बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः
आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम्। गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः
वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना। पितुः संस्पर्शशीतेन गन्धमादनवायुना
ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्। विलोकयामास तदा पुष्पहेतोररिंदमः
विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः। विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः। मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः
अभिरामदरीकुञ्जनिर्झरोदककन्दरम्। अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम्
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्। स्रस्तांशुकमिवाश्रोभ्यैर्निम्नगानिःसृतैर्जलैः
सशष्पकबलैः स्वस्थैरदूरपरिवर्तिभिः। भयानभिक्षज्ञैर्हरिणैः कौतूहलनिरीक्षितः
चालयानः स्ववेगेन लताजालान्यनेकशः। आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः। प्रांशुः कनकवर्णाभः सिंहसंहननो युवा