ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम्। स्निग्धामविरलच्छायां श्रिया परमया युताम्
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम्। विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम्
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम्। मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम्। मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम्
अदंशमशके देशे बहुमूलफलोदके। नीलशाद्वलसंछन्ने देवगन्धर्वसेविते
सुभूमिभागविशदे स्वभावविदिते शुभे। जातां हिममृदुस्पर्शे देशेऽपहतकण्टके
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः। अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम्। ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः
तमसा रहितं पुण्यमनामृष्टं रवेः करैः। क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम्
महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम्। दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम्। दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम्
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः। महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम्
शरण्यं सर्वभूतानां ब्रह्मघोपनिनादितम्। दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्। श्रिया युतमनिर्देश्यं देववर्योपशोभितम्
फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः। सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः। ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः। भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम्। अभ्यगच्छन्त सुप्रीता दिव्या देवमहर्षयः
प्रीतास्ते तस्य सत्कारं विधिना पावकापमाः। उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि
स तैः प्रीत्याऽथ सत्कारमुपनीतं महर्षिभिः। प्रयतः प्रतिगृह्याथ धर्मराजो युधिष्ठिरः
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम्। प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया
रविवेश शोभया युक्तं भ्रातृभिश्च सहानघ। ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहार्चितः
तत्रापश्यत्स धर्मात्मा देवदेवर्पिपूजितम्। नरनारायणस्थानं भागीरथ्योपशोभितम्
तस्मिन्मधृस्रवफलां ब्रह्मर्षिगणभाविनीम्। वदरीं तामुपाश्रित्य पाण्डवो भ्रातृभिः सह
मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा। आलोकयन्तो मैनाकं नानाद्विजगणायुतम्। हिरण्यशिखरं चैव मध्ये विन्दुसरः शिवम्
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम्। मणिप्रवालप्रस्तारां पादपैरुषशोभिताम्
दिव्यपुष्पसमाकीर्णां मनःप्रीतिविवर्धनीम्। वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः
तस्मिन्देवर्षिचरिते देशे परमदुर्गमे। भागीरथीपुण्यजलेतर्पयांचक्रिरे पितॄन्। देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः
तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः। ब्राह्मणैः सहिता वीरा ह्यवसन्पुरुपर्षभाः
कृष्णायास्तत्रपशय्न्तः क्रीडितान्यमरप्रभाः। विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः। षड्रात्रमवसन्वीरा धनंजयदिदृक्षया
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः। मनोज्ञे काननवरे सर्व भूतमनोरमे