अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी। आश्वासय महाराज तामिमां श्रमकर्शिताम्
राजा तु वचनात्तस्य भृशं दुःखसमन्वितः। भीमश्च सहदेवश्च सहसा समुपाद्रवन्
तामवेक्ष्यतु कौन्तेयो विवर्णवदनां कृशाम्। अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता। भूमौ निषतिता शेते सुखार्हा वरवर्णिनी
सुकुमारौ कथं पादौ मुखं च कमलप्रभम्। मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम्
किमिदं द्यूतकामेन मया कृतमबुद्धिना। आदाय कृष्णां चरता वने मृगगणाकुले
सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन्। इतिद्रुवदराजेन पित्रा दत्ताऽयतेक्षणा
तत्सर्वमानवाप्येयं श्रमशोकाद्विकर्शिता। शेते निपतिता भूमौ पापस्य मम कर्मभिः
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे। धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन्। राक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः
पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः। स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः
सेव्यमाना च शीतेन जलमिश्रेण वायुना। पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः
परिगृह्यच तां दीनां कृष्णामजिनसंस्तरे। पार्था विश्रामयामासुर्लब्धसंज्ञां तपस्विनम्
तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ। कराभ्यां किणजाताभ्यां शनकैः संववाहतुः
पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः। उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः
बहवः पर्वता मीम विषमा हिमदुर्गमाः। तेषु कृष्णा महाबाहो कथं नु विचरिष्यति
त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभ। स्वयं नेष्यामि राजेनद्र मा विषादे मनुः कृथाः
अथवा यो मया जातो विहगो मद्बलोपमः। वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः। भक्तोऽस्मानौरसः पुत्रो नेतुमर्हति मातरम्
तव भीम सुतेनाहं नीतो भीमपराक्रम। अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम्
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम्। `चिन्तयामास बलवान्महाबलपराक्रमम्
घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा। कृताञ्जलिरुषातिष्ठदभिवाद्याथ पाण्डवान्। ब्राह्मणांश्च महाबाहुः स च तैरमिनन्दितः
उवाच भीमसेनं स पितरं सत्यविक्रमः
स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः। आज्ञापय महाबाहो सर्वं कर्ताऽस्म्यसंशयम्
तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे। चिन्ताया समनप्राप्तमित्युवाच वृकोदरः
हैडिम्बेय परिश्रान्ता तव माताऽपराजिता। त्वं कच कामगमस्तात बलवान्वह तां खग
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा। गच्छ नीचिकया गत्या यथा चैनां न पीडयेः
धर्मराजं च धौम्यं च कृष्णां च यमजौ तथा। एकोप्यहमलं वोढुं किमुताद्य सहायवान्
[अन्ये च शतशः शूरा विहङ्गाः कामरूपिणः। सर्वान्वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहिताऽनघ। `मन्दंमन्दं गमिष्यामि वहन्द्रुपदनन्दिनीम्
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः। पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे