न चापश्यंस्ततोऽन्योन्यं तमसाऽऽवृतचक्षुषः। आकृष्यमाणा वातेन साश्मचूर्णेन भारत
द्रुमाणां वातरुग्णआनां पततां भूतलेऽनिशम्। अन्येषां च महीजानां शब्दः समभवन्महान्
द्यौः स्वित्पतति किं भूमिर्दीर्यते पर्वतोनु किम्। इति ते मेनिरे सर्वेपवनेन विमोहिताः
ते पथाऽनन्तरांन्वृक्षान्वल्मीकान्विषमाणि च। पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे
ततः कार्मुकमादाय भीमसेनो महाबलः। कृष्णामादाय संगम्य तस्थावाश्रित्य पादपम्
धर्मराजश्च धौम्यश् निलिल्याते महावने। अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः। वृक्षानासाद्य संत्रस्तास्तत्रतत्र निलिल्यिरे
मन्दीभूते तु पवने तस्मिन्रजसि शाम्यति। महद्भिर्जलधारौर्घर्वर्षमभ्याजगाम ह
भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव। ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः। प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः
तत्र सागरगा ह्यापः कीर्यमाणाः समन्ततः। प्रादुरासन्सकलुषाः फेनवत्यो विशांपते
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्। परिसमस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान्
तस्मिन्नुपरते शब्देबाते च समतां गते। गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत। प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम्
ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु। पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्
श्रान्ता दुःखपरीता च वातवर्षेण तेन च। सौकुमार्याच्च पाञ्चाली संमुमोह तपस्विनी
सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा। रवृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत
आलम्बमाना सहितावूरू गजकरोपमौ। रपपात सहसा भूमौ वेपन्ती कदली यथा
तां पतन्तीं वरारोहां भज्यमानां लतामिव। नकुलः समभिद्रुत्य परिजग्राह वीर्यवान्
राजन्पाञ्चालराजस्य सुतेयमसितक्षणा। श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत
अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी। आश्वासय महाराज तामिमां श्रमकर्शिताम्
राजा तु वचनात्तस्य भृशं दुःखसमन्वितः। भीमश्च सहदेवश्च सहसा समुपाद्रवन्
तामवेक्ष्यतु कौन्तेयो विवर्णवदनां कृशाम्। अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता। भूमौ निषतिता शेते सुखार्हा वरवर्णिनी
सुकुमारौ कथं पादौ मुखं च कमलप्रभम्। मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम्
किमिदं द्यूतकामेन मया कृतमबुद्धिना। आदाय कृष्णां चरता वने मृगगणाकुले
सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन्। इतिद्रुवदराजेन पित्रा दत्ताऽयतेक्षणा
तत्सर्वमानवाप्येयं श्रमशोकाद्विकर्शिता। शेते निपतिता भूमौ पापस्य मम कर्मभिः
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे। धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन्। राक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः