प्रसादितो मया पूर्वं तवार्थाय पितामहः। तस्मात्तव भयं नास्ति व्येतु तेनसो ज्वरः
एवमाश्वासितस्तेन ततः स भुजगोत्तमः। उवास भवने तस्मिञ्शक्रस्य मुदितः सुखी
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः। अल्पशेषपरीवारो वासुकिः पर्यतप्यत
कश्मलं चाविशद्धोरं वासुकिं पन्नगोत्तमम्। स घूर्णमानहृदयो भगिनीमिदमब्रवीत्
दह्यन्तेऽङ्गानि मे भद्रे न दिशः प्रतिभान्ति माम्। सीदामीव च संमोहाद्धूर्णतीव च मे मनः
दृष्टिर्भ्राम्यति मेऽतीव हृदयं दीर्यतीव च। पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया। व्यक्तं मयाऽभिगन्तव्यं प्रेतराजनिवेशनम्
अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः। जरत्करौ(पुरा)मयादत्तात्रायस्वास्मान्सबान्धवान्
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे। प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्। ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्
तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा। वासुकेर्नागराजस्य वचनादिदमब्रवीत्
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः। कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे। तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी। भगिनी नागराजस्य जरत्कारुरविक्लबा
पन्नगानामशेषाणां माता कद्रूरिति श्रुता। तया शप्ता रुषितया सुता यस्मान्निबोध तत्
उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम। विनतार्थाय पणिते दासभावाय पुत्रकाः
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः। तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ
तां च शप्तवतीं देवः साक्षाल्लोकपितामहः। एवमस्त्विति तद्वाक्यं प्रोवाचानु मुमोद च
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा। अमृते मथिते तात देवाञ्छरणमीयिवान्
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्। भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसंभवम्। राज्ञा वासुकिना सार्धं शापोऽसौन भवेदिति
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्। अभिशापः स मातुस्तु भगवन्न भवेत्कथम्
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति। तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान्
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः। प्रादान्माममरप्रख्य तव पित्रे महात्मने
प्रागेवानागते काले तस्मात्त्व मय्यजायथाः। अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि
भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात्। न मोघं तु कृतं तत्स्याद्यदहं तव धीमते। पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे
एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा। अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम। तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते
भव स्वस्थमना नाग न हि ते विद्यते भयम्। प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा। तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्