तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः। प्रोवाच वचनं हृष्टः श्राव्यारसमीरितम्
न ते महि भयं कार्यं भारार्ते वसुधारिणि। अयमेवं तथा कुर्मि यथा लध्वी भविष्यसि
स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम्। ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः
रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव। धूमं च ज्वलयँल्लक्ष्म्या तत्र देशे व्यवर्धत
स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता। योजनानां शतं वीर समुद्धरति सोऽक्षरः
तस्यां चोद्धार्यमाणायां संक्षोभः समजायत। देवाः संक्षुभिताः सर्वे ऋषयश्च तपोधनाः
हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा। न पर्यवस्थितः कश्चिद्देवो वा मानुषोपि वा
ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया। देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः
उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम्। भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा
लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम्। समुद्राणां च संक्षोभस्त्रिदशेश प्रकाशते
सैषा वसुमती कृत्स्ना योजनानां शतं गता। किमेतत्किंप्रभावेण येनेदं रव्याकुलं जगत्। आख्यातु नो भवाञ्शीघ्रं विसंज्ञाः स्मेह सर्वशः
असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित्क्वचित्। श्रूयतां यत्कृते त्वेष संक्षोभो जायतेऽमराः
योसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः। तस्य प्रभावात्संक्षोभस्त्रिदिवस्य प्रकाशते
यैषा वसुमती कृत्स्ना योजनानां शतं गता। समुद्धृता पुनस्तेन विष्णुना परमात्मना
तस्यामुद्धार्यमाणायां संक्षोभः समजायत। एवं भवन्तो जानन्तु च्छिद्यतां संशयश्च वः
क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत्। तं देशं भगवन्ब्रूहि तत्र यास्यामहे वयम्
हन्त गच्छत भद्रं वो नन्दने पशय्त स्थितम्। एषोत्र भगवाञ्श्रीमान्मुपर्णः संप्रकाशते
वारादेणैव रूपेण भगवाँल्लोकभावनः। कालानल इवाभाति पृथिवीतलमुद्धरन्
एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते। पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम्
ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः। पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम्
श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय। लोमशादेशितेनाशु यथा जग्मुः प्रहृष्टवत्
ते शूरा सज्जधन्वानस्तूणवन्तः समार्गणाः। बद्धगोधाङ्गुलित्राणाः खङ्गवन्तोऽमितौजसः
परिगृह्य द्विजश्रेष्ठाञ्ज्येष्ठाः सर्वधनुष्मताम्। पञ्चालीसहिता राजन्प्रययुर्गन्धमादनम्
सरांसि सरितश्चैव पर्वतांश्च वनानि च। वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान्। आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः
चेरुरुच्चावचाकारान्देशान्विषमसंकटान्। पश्यन्तो मृगजातानि बहूनि विविधानि च
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्। विविशुस्ते महात्मानः किन्नराचरितं गिरिम्
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्। चणअडवातं महद्वर्षं प्रादुरासीद्विशांपते
ततो रेणुः समुद्भूतः सपत्रबहुलो महान्। पृथिवीं चान्तरिक्षं च द्यां चैव सहसाऽवृणोत्
न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना। न चापि शेकुस्तत्कर्तुमन्योन्यस्याभिभाषणम्