तं दृष्ट्वा ज्वलमानश्रीर्भगवान्हव्यवाहनः। नष्टतेजाः समभवत्तस्य तेजोभिभर्त्सितः
तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम्। प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत्। प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत्
जानामि ते भयं शक्र दैत्येन्द्रान्नरकात्ततः। ऐन्द्रं रप्रार्थयते स्थानं तपःसिद्धेन कर्मणा
सोहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम्। वियुनज्मि देहाद्देवेनद्र मुहूर्तं प्रतिपालय
तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत्। स पपात ततो भूमौ गिरिराज इवाहतः। तस्यैतदस्थिसंघातं मायाविनिहतस्य वै
इदं द्वितीयमपरं विष्णो कर्म प्रकाशते
नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता। पुनरुद्धरिता तेन वाराहेणैकशृङ्गिणा
मगवन्विस्तरेणेमां कथां कथय तत्त्वतः
कथं तेन सुरेशेन नष्टा वसुमती तदा। योजनानां शतं ब्रह्मन्पुनरुद्धरिता तदा
केन चैव प्रकारेण जगतो धरणी ध्रुवा। शिवा देवी महाभागा सर्वसस्यप्ररोहिणी। कस्य चैव प्रभावाद्धि योजनानां शतं गता
श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः
यत्तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर। तत्सर्वमखिलेनेह श्रूयतां मम भाषतः
पुरा कृतयुगे तात वर्तमाने भयंकरे। यमत्वं कारयामास आदिदेवः पुरातनः
यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः। न तत्र म्रियते कश्चिज्जायते वा तथाऽच्युत
वर्धन्ते पक्षिसङ्घाश्च तथा पशुगवेडकम्। गवाश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः
तथा पुरुषशार्दूल मानुपाश्च परंतप। सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा
एतस्मिन्संकुले तात वर्तमाने भयंकरे। अतिभाराद्वसुमती योजनानां शतं गता
सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना। नारायणं वरं देवं प्रपन्ना शरणं गता
भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह। भारेणास्मि समाक्रान्ता न शक्नोस्मि स्म वर्तितुम्
ममेमं भगवन्भारं व्यपनेतुं त्वमर्हसि। शरणागताऽस्मि ते देव प्रसादं कुरु मे विभो
तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः। प्रोवाच वचनं हृष्टः श्राव्यारसमीरितम्
न ते महि भयं कार्यं भारार्ते वसुधारिणि। अयमेवं तथा कुर्मि यथा लध्वी भविष्यसि
स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम्। ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः
रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव। धूमं च ज्वलयँल्लक्ष्म्या तत्र देशे व्यवर्धत
स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता। योजनानां शतं वीर समुद्धरति सोऽक्षरः
तस्यां चोद्धार्यमाणायां संक्षोभः समजायत। देवाः संक्षुभिताः सर्वे ऋषयश्च तपोधनाः
हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा। न पर्यवस्थितः कश्चिद्देवो वा मानुषोपि वा
ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया। देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः
उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम्। भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा
लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम्। समुद्राणां च संक्षोभस्त्रिदशेश प्रकाशते