यस् बाहुबले तुल्यः प्रभावे च पुरंदरः। जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः
ते वयं तं नरव्याघ्रं सर्वेवीर दिदृक्षवः। प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम्
विशाला बदरी यत्रनरनारायणाश्रमः। तं सदाऽध्युषितं यक्षैर्द्रक्ष्यामो गिरिसुत्तमम्
कुबेरनलिनीं रम्यां राक्षसैरभिसेविताम्। पद्भिरेव गमिष्यामस्तप्यभाना महत्तपः
नातप्ततपसा शक्यो गन्तुं देशो वृकोदर। न नृशंसेन लुब्धेन नाप्रशान्तेन भारत
तत्र सर्वेगमिष्यामो भीमार्जुपदैषिणः। सायुधा बद्धनिस्त्रिंशाः सार्धं विप्रैर्महाव्रतैः
मक्षिकादंशमशकान्सिंहान्व्याघ्रान्सरीसृपान्। प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति
ते वयं नियतात्मानः पर्वतं गन्धमादनम्। प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः
द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः। तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः
पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति। समाहीता निरुद्विग्नाः सर्वे भवत पाण्डवाः
अयं देवनिवासो वै गन्तव्यो वो भविष्यति। ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणां
एषा शिवजला पुण्या याति सौम्य महानदी। बदरीप्रभवा राजन्देवर्षिगणसेविता
एषा वैहायसैर्नित्यं वालखिल्यैर्महात्मभिः। अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः
अत्रसाम स्म गायन्ति सामगाः पुण्यनिःस्वनाः। मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा
अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः। साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा
चन्द्रमाः सह सूर्येण ज्योतीषि च ग्रहैः सह। अहोरात्रविभागेन नदीमेनामनुव्रजन्
एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत्। गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत्
एतां भगवतीं देवीं भवन्तः सर्व एव हि। प्रयतेनात्मना तात प्रतिगम्याभिवादत
तस्य तद्वचनं श्रुत्वा लोमशस्य महात्मनः। आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन्
अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः। पुनः प्रयाताः संहृष्टाः सर्वैर्ऋषिगणैः सह
ततो दूरात्प्रकाशन्तं पाण्डुरं मेरुसंनिभम्। ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम्
तान्प्रष्टुकामान्विज्ञाय पाण्डवान्स तु लोमशः। उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः
एतद्विकीर्णं सुश्रीमत्कैलासशिखरोपमम्। यत्पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम्
एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः। पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम्
पुरातनेन देवेन विष्णुना परमात्मना। रदैत्यो विनिहतस्तेन सुरराजहितैषिणा
दशवर्षसहस्राणि तपस्तप्यन्महामनाः। ऐनद्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात्
तपोबलेन महता बाहुवेगबलेन च। नित्यमेव दुराधर्षो धर्षयन्स दितेः सुतः
स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम्। भयाभिभूतः संविग्नः शक्र आसीत्तदाऽनघ
तेन संचिन्तितो देवो मनसा विष्णुरव्ययः। सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितो बभौ
ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः