दुर्बलाः क्लेशिताः स्मेति यद्ब्रुवामेतरेतरम्। अशक्येऽपि व्रजामो यद्नंजयदिदृक्षया
तन्मे दहति गात्राणि तूलराशिमिवानलः। यच्च वीरं न पश्यामि धनंजयमुपान्तिके
तस्यादर्शनतप्तं मां सानुजं वनमास्थितम्। याज्ञसेन्याः परामर्शः स च वीर दहत्युत
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम्। अजेयमुग्रधन्वानं तेन तप्ये वृकोदर
तीर्थानि चैव रम्याणि वनानि च सरांसि च। चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया
पञ्चवर्षाण्यहं वीरं सत्यसन्धं धनंजयम्। यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम्। न पश्यामि महाबाहुं तेन तप्ये वृकोदर
कृतास्त्रं निपुणं युद्देऽव्रतिमानं धनुष्मताम्। न पश्यामि कुरुश्रेष्ठ तेन तप्ये वृकोदर
चरन्तमरिसङ्घेषु क्रुद्धं कालमिवानघ। प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम्
यः स शक्रादनवरो वीर्येण च बलेन च। यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः
नारायणसमो युद्धे सत्यसन्धो दृढव्रतः। तं ममापश्यतो भीम न शान्तिर्हृदयस्य वै
दुःखेन महताऽऽविष्टश्चिन्तयामि दिवानिशम्। अजेयमुग्रधन्वानं तेन तप्ये वृकोदर
सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा। ऋजुमार्गप्रपन्नस्य शर्मदाता भयस्य च
स तु जिह्मप्रवृत्तस्य माययाऽभिजिघांसतः। अपि वज्रधरस्यापि भवेत्कालविषोपमः
शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान्। दाताऽभयस् बीभत्सुरमितात्मा महाहलः
सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता। आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः
रत्नानि यस्य वीर्येण दिव्यान्यासत्पुरा मम। बहूनि बहुजातीनि यानि प्राप्तः सुयोधनः
यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम। सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि। अजेयममितं युद्धे तं न पश्यामि फल्गुनम्
संकर्षणं महावीर्यं त्वां च भीमापराजितम्। अनुयातः स्ववीर्येण वासुदेवं च शत्रुहा
यस् बाहुबले तुल्यः प्रभावे च पुरंदरः। जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः
ते वयं तं नरव्याघ्रं सर्वेवीर दिदृक्षवः। प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम्
विशाला बदरी यत्रनरनारायणाश्रमः। तं सदाऽध्युषितं यक्षैर्द्रक्ष्यामो गिरिसुत्तमम्
कुबेरनलिनीं रम्यां राक्षसैरभिसेविताम्। पद्भिरेव गमिष्यामस्तप्यभाना महत्तपः
नातप्ततपसा शक्यो गन्तुं देशो वृकोदर। न नृशंसेन लुब्धेन नाप्रशान्तेन भारत
तत्र सर्वेगमिष्यामो भीमार्जुपदैषिणः। सायुधा बद्धनिस्त्रिंशाः सार्धं विप्रैर्महाव्रतैः
मक्षिकादंशमशकान्सिंहान्व्याघ्रान्सरीसृपान्। प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति
ते वयं नियतात्मानः पर्वतं गन्धमादनम्। प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः
द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः। तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः
पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति। समाहीता निरुद्विग्नाः सर्वे भवत पाण्डवाः