सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्। उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः
असितो देवलश्चैव नारदः पर्वतस्तथा। आत्रेयः कुम्डजठरौ द्विजः कालघटस्तथा
वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान्। कोहलो देवशर्मा च मौद्गल्यः समसौरभः
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः। सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ। अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः
वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः। ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा
पततां चैव नागानां धिष्ठितानां तथाम्बरे। अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्। गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः। अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम्
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक। भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन
प्रसादितो मया पूर्वं तवार्थाय पितामहः। तस्मात्तव भयं नास्ति व्येतु तेनसो ज्वरः
एवमाश्वासितस्तेन ततः स भुजगोत्तमः। उवास भवने तस्मिञ्शक्रस्य मुदितः सुखी
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः। अल्पशेषपरीवारो वासुकिः पर्यतप्यत
कश्मलं चाविशद्धोरं वासुकिं पन्नगोत्तमम्। स घूर्णमानहृदयो भगिनीमिदमब्रवीत्
दह्यन्तेऽङ्गानि मे भद्रे न दिशः प्रतिभान्ति माम्। सीदामीव च संमोहाद्धूर्णतीव च मे मनः
दृष्टिर्भ्राम्यति मेऽतीव हृदयं दीर्यतीव च। पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया। व्यक्तं मयाऽभिगन्तव्यं प्रेतराजनिवेशनम्
अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः। जरत्करौ(पुरा)मयादत्तात्रायस्वास्मान्सबान्धवान्
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे। प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्। ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्
तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा। वासुकेर्नागराजस्य वचनादिदमब्रवीत्
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः। कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे। तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी। भगिनी नागराजस्य जरत्कारुरविक्लबा
पन्नगानामशेषाणां माता कद्रूरिति श्रुता। तया शप्ता रुषितया सुता यस्मान्निबोध तत्
उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम। विनतार्थाय पणिते दासभावाय पुत्रकाः
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः। तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ
तां च शप्तवतीं देवः साक्षाल्लोकपितामहः। एवमस्त्विति तद्वाक्यं प्रोवाचानु मुमोद च
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा। अमृते मथिते तात देवाञ्छरणमीयिवान्
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्। भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्