न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्। शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विपमेषु च
इयं चापि महाभागा राजपुत्री पतिव्रता। त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम्
तथैवसहदेवोऽयं सततं त्वामनुव्रतः। न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै
अपिचात्र महाराज सव्यसाचिदिदृक्षया। सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः। पद्भिरेव गमिष्यामो मा राजन्विमना भव
अहं वहिष्ये पाञ्चालीं यत्रयत्र न शक्ष्यति। इति मे वर्तते बुद्धिर्मा राजन्विमना भव
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ। दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्। यत्त्वमुत्सहसे वोढुं पाञ्चालीं विपुलेऽध्वनि
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते। बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम्
यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया। मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः
ततः कृष्णाऽब्रवीद्वाक्यं प्रहसन्ती मनोरमा। गमिष्यामि न संताप कार्यो मां प्रति भारत
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः। तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्
नकुलः सहदेवश्च भीमसेनश् पार्थिव। अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्
एवं संभाषमाणास्ते सुबाहुविषयं महत्। ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत्
किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम्। हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्। सुबाहुश्चापि तान्दृष्ट्वा पूजयाप्रत्यगृह्णत
विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम्। तत्र ते पूजितास्तेन सर्व एव सुखोपिताः
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति। इन्द्रसेनमुखांश्चापि भृत्यान्पौरोगवांस्तथा
सूदांश्च पारिबर्हांश्च द्रौपद्याः सर्वशो नृप। राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः। ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः। तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम्
भीमसेनयमौ चोभौ पाञ्चालि च निबोधत। नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान्
दुर्बलाः क्लेशिताः स्मेति यद्ब्रुवामेतरेतरम्। अशक्येऽपि व्रजामो यद्नंजयदिदृक्षया
तन्मे दहति गात्राणि तूलराशिमिवानलः। यच्च वीरं न पश्यामि धनंजयमुपान्तिके
तस्यादर्शनतप्तं मां सानुजं वनमास्थितम्। याज्ञसेन्याः परामर्शः स च वीर दहत्युत
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम्। अजेयमुग्रधन्वानं तेन तप्ये वृकोदर
तीर्थानि चैव रम्याणि वनानि च सरांसि च। चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया
पञ्चवर्षाण्यहं वीरं सत्यसन्धं धनंजयम्। यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम्। न पश्यामि महाबाहुं तेन तप्ये वृकोदर
कृतास्त्रं निपुणं युद्देऽव्रतिमानं धनुष्मताम्। न पश्यामि कुरुश्रेष्ठ तेन तप्ये वृकोदर
चरन्तमरिसङ्घेषु क्रुद्धं कालमिवानघ। प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम्
यः स शक्रादनवरो वीर्येण च बलेन च। यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः