अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च। अग्निना तपसा चैव शक्यं गन्तुं वृकोदर
सन्निवर्तय कौन्तेय क्षुत्पिपासे बलाश्रयात्। ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति। बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति
अथवा सहदेवेन धौम्येन च समं विभो। सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि। सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण
त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः। अहं च नकुलश्चैव लोमशश्च महातपाः
ममागमनमाकाङ्क्षन्ग्गाद्वारे समाहितः। वसेह द्रौपदीं रक्षन्यावदागमनं मम
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत। व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया
तवचाप्यरतिस्तीव्रा वर्तते तमपश्यतः। गुडाकेशं महात्मानं संग्रामेष्वपलायिनम्। किं पुनः सहदेवं च मां च कृष्णां च भारत
द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः। सूताः पौरोगवाश्चैव यं च मन्येत नो भवान्
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्। शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विपमेषु च
इयं चापि महाभागा राजपुत्री पतिव्रता। त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम्
तथैवसहदेवोऽयं सततं त्वामनुव्रतः। न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै
अपिचात्र महाराज सव्यसाचिदिदृक्षया। सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः। पद्भिरेव गमिष्यामो मा राजन्विमना भव
अहं वहिष्ये पाञ्चालीं यत्रयत्र न शक्ष्यति। इति मे वर्तते बुद्धिर्मा राजन्विमना भव
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ। दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्। यत्त्वमुत्सहसे वोढुं पाञ्चालीं विपुलेऽध्वनि
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते। बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम्
यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया। मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः
ततः कृष्णाऽब्रवीद्वाक्यं प्रहसन्ती मनोरमा। गमिष्यामि न संताप कार्यो मां प्रति भारत
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः। तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्
नकुलः सहदेवश्च भीमसेनश् पार्थिव। अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्
एवं संभाषमाणास्ते सुबाहुविषयं महत्। ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत्
किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम्। हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्। सुबाहुश्चापि तान्दृष्ट्वा पूजयाप्रत्यगृह्णत
विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम्। तत्र ते पूजितास्तेन सर्व एव सुखोपिताः
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति। इन्द्रसेनमुखांश्चापि भृत्यान्पौरोगवांस्तथा
सूदांश्च पारिबर्हांश्च द्रौपद्याः सर्वशो नृप। राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः। ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः। तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम्
भीमसेनयमौ चोभौ पाञ्चालि च निबोधत। नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान्