कैलासः पर्वतो राजन्पड्योजनशतोच्छ्रितः। यत्रदेवाः समायान्ति विशाला यत्र भारत
असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः। नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति
तान्विगाहस्व पार्थाद्य तपसा च दमेन च। रक्ष्यमाणो मया राजन्भीमसेनबलेन च
स्वस्ति ते वरुणो राजा यमश्च समितिंजयः। गङ्गा च यमुना चैव पर्वताश्च दिशन्तु ते
मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च। स्वस्ति देवासुरेभ्यश्च वसुभ्यश् महाद्युते
इन्द्रस्य जाम्बूनदपर्वताद्वै शृणोमि घोषं तव देवि गङ्गे। गोपाययेमं सुभगे गिरिभ्यः सर्वाजमीढापचितं नरेन्द्रम्
ददस्व शर्म प्रविविक्षतोऽस्य शैलानिमाञ्छैलसुते नृपस्य। `शिवप्रदा सर्वसरित्प्रधाने स भ्रातृकस्येह युधिष्ठिरस्य
अपूर्वोऽयं संभ्रमो लोमशस्य कृष्णां च सर्वे रक्षत मा प्रमादः। देशो ह्ययं दुर्गतमो मतोऽस्य तस्मात्परं शौचमिहाचरध्वम्
ततोऽब्रवीद्भीममुदारवीर्यं कृष्णां यत्तः पालय भीमसेन। शून्येऽर्जुनेऽसन्निहिते च तात त्वामेव कृष्णा भजते भयेषु
ततो महात्मां स यमौ समेत्य मूर्धन्युपाघ्राय विमृज्यगात्रे। उवाच तौ बाष्पकलं स राजा मा बैष्टमागच्छतमप्रमत्तौ
अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च। अग्निना तपसा चैव शक्यं गन्तुं वृकोदर
सन्निवर्तय कौन्तेय क्षुत्पिपासे बलाश्रयात्। ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति। बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति
अथवा सहदेवेन धौम्येन च समं विभो। सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि। सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण
त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः। अहं च नकुलश्चैव लोमशश्च महातपाः
ममागमनमाकाङ्क्षन्ग्गाद्वारे समाहितः। वसेह द्रौपदीं रक्षन्यावदागमनं मम
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत। व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया
तवचाप्यरतिस्तीव्रा वर्तते तमपश्यतः। गुडाकेशं महात्मानं संग्रामेष्वपलायिनम्। किं पुनः सहदेवं च मां च कृष्णां च भारत
द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः। सूताः पौरोगवाश्चैव यं च मन्येत नो भवान्
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्। शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विपमेषु च
इयं चापि महाभागा राजपुत्री पतिव्रता। त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम्
तथैवसहदेवोऽयं सततं त्वामनुव्रतः। न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै
अपिचात्र महाराज सव्यसाचिदिदृक्षया। सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः। पद्भिरेव गमिष्यामो मा राजन्विमना भव
अहं वहिष्ये पाञ्चालीं यत्रयत्र न शक्ष्यति। इति मे वर्तते बुद्धिर्मा राजन्विमना भव
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ। दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्। यत्त्वमुत्सहसे वोढुं पाञ्चालीं विपुलेऽध्वनि
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते। बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम्
यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया। मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः