स तस्यब्रह्महत्यायाः पारं गत्वा युधिष्ठिर। अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः
ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्। बृहद्द्युम्नमुवाचेदं वचनं हर्षगद्गदम्
एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति। ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वामसंशयम्
तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट्पते। प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा। न मया ब्रह्महत्येयं कृतेत्याह पुनःपुनः
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महा इति भारत। नैवस्म प्रतिजानामि ब्र्हमहत्यां स्वयंकृताम्। मम भ्रात्रा कृतमिदं मया स परिमोक्षितः
स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः। तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः
उग्रं तपः समास्थाय दिवाकरमथाश्रितः। रहस्यवेदं कृतवान्सूर्यस्य द्विजसत्तमः
मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः
प्रीतास्तस्याभवन्देवाः कर्मणाऽर्वावसोर्नृप। तं ते प्रवरयामासुर्निरासुश्च परावसुम्
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः
स चापि वरयामास पितुरुत्थानमात्मनः। अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे
भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः। प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः
एवमस्त्विति तं देवाः प्रोचुश्चापि वरान्ददुः। ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर
अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान्। समधीतं मया ब्रह्म व्रतानि चरितानि च
कथं च रैभ्यः शक्तो मामदीयानं तपस्विनम्। तथायुक्तेन विधिना निहन्तुममरोत्तमाः
मैवं कृथा यवक्रीत यथा वदसि वै मुने। ऋते गुरुमधीता हि स्वयं वेदास्त्वया पुरा
अनन तु गुरूनदुःखात्तोषयित्वाऽऽत्मक्रमणा। कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम्
यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः। संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम्
ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह। अष्टादश च वर्षाणि त्रिंशतं च युधिष्ठिर
आस्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः। अत्रोष्य राजशार्दूल सर्वपापैः प्रभोक्ष्यसे
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत। समतीतोऽसि कौन्तेय कालशैलं च पार्थिव
एषा गङ्गा सप्तविधा राजते भरतर्षभ। स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम्। समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ
एतद्द्रक्ष्यसि देवानामाक्रीडं च रणाङ्कितम्। अतिक्रान्तोसि कौन्तेय कालशैलं च पर्वतम्
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम्। यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट्
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः। तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते। यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते
तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते। यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः। दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः। तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव