यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत्। अनुज्ञातस्तु रैभ्येण तया नार्या सहावसत्
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्। समित्कलापमादाय प्रविवेश स्वमाश्रमम्
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठिन्ति पावकाः। न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाऽग्नयः
वैकृतंत्वग्निहोत्रे स लक्षयित्वा महातपाः। तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत्
किंनु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम्। त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः। एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः
रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः। तथाहि निहतः शेते राक्षसेन महात्मना
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा। अग्न्यगारं प्रतिद्वारि मया दोर्भ्यां निवारितः
ततः स विहताशोऽत्रजलकामोशुचिर्ध्रुवम्। निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा
भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत्। गतासुं पुत्रमादाय विललाप सुदुःखितः
रब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः। द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति
तथा कल्याणशीलस्त्वं ब्राह्मणेषुमहात्मसु। अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान्
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात्। गतवानेव तं क्षुद्रं कालान्तकयमोपमम्
यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम्। गतवानेव कोपस्य वशं परमदुर्मतिः
पुत्रशोकमनुप्राप्त एष रैभ्यस्य कर्मणा। त्यक्ष्यामि त्वामृतेपुत्र प्राणानिष्टतमान्भुवि
यथाऽहं पुत्रशोकेन देहं त्यक्ष्यामि किल्विषी। तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम्
सुखिनो वै नरा येषां जाया पुत्रो न विद्यते। ये पुत्रशोकमप्राप्य विचरन्ति यथासुखम्
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः। शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः
परासुश्च सुतो दृष्टः शप्तश्चैष्टः सखा मया। ईदृशीमापदं कोत्र द्वितीयोऽनुविष्यति
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम्। सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम्
एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः। सत्रं तेने महाभागो रैभ्ययाज्यः प्रतापवान्
तेन रैभ्यस्य वै पुत्रावर्वावसुपरासू। वृतौ सहायौ सत्रार्थं बृहद्द्युम्नेन धीमता
तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः। आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः
अथावलोककोऽगच्छद्गृहानकः परावसुः। कृष्णाजिनेन संवीतं ददर्श पितरं वने
जघन्यरात्रे निद्रान्धः सावशेषे तमस्यापि। चरन्तं गहनेऽरण्ये मेने स पितरं मृगम्
मृगं तु मन्यमानेन पिता वै तेन हिंसितः। अकामयानेन तदा शरीरत्राणमिच्छता
तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत। पुनरागम्य तत्सत्रमब्रवीद्धातरं वचः
इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन। मया च हिंसितस्तातो मन्यमानेन वै मृगम्
सोऽस्मदर्थे व्रतं तात चर त्वं ब्रह्मघातिनाम्। समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने
करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः। ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः