उक्त्वा स पितरं श्लक्ष्ण यवक्रीरकुतोभयः। विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा
चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः। जगाम माधवे मासि रैभ्याश्रमपदं प्रति
स ददर्शाश्रमे रम्ये पुष्पतद्रुमभूषिते। विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत
यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिनि। निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती। तेजस्वितां च रैभ्यस् तथेत्युक्त्वा जगाम ह
तत एकान्तमानीय लज्जयामास भारत। आजगाम तदा रैभ्यः स्वमाश्रममरिंदम
रुदतीं च स्नुषां दृष्ट्वा भार्यामार्ता परावसोः। सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर
सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा। प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथाऽऽत्मना
शृण्वानस्यैव रैभ्यस्य यवक्रेस्तद्विचेष्टनम्। दहन्निव तदा चेतः क्रोधः समभवन्महान्
स तदा मन्युनाऽऽविष्टस्तपस्वी कोपनो भृशम्। अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते
ततः समभवन्नारी तस्या रूपेण संमिता। अवलुप्यापरां चापि जुहावाग्नौ जटां पुनः
ततः समभवद्रक्षो दीप्तास्यं घोरदर्शनम्। अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे
तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति। जग्मतृस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया
ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना। कमण्डलुं जहारास्य मोहयित्वा तु भारत
उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम्। तत उद्यतशूलः स राक्षसः समुपाद्रवत्
तमाद्रवन्तं संप्रेक्ष्य शूलहस्तं जिघांसया। यवक्रीः सहसोत्थाय प्राद्रवद्यत्रवै सरः
जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः। जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः
स काल्यमानो घोरेण शूलहस्तेन रक्षसा। अग्निहोत्रे पितुर्भीतः सहसा प्रविवेश ह
स वै प्रविशमानस्तु शुद्रेणान्धेन रक्षिणा। निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव
निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः। ताडयामास शूलेन स भिन्नहृदयोऽपतत्
यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत्। अनुज्ञातस्तु रैभ्येण तया नार्या सहावसत्
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्। समित्कलापमादाय प्रविवेश स्वमाश्रमम्
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठिन्ति पावकाः। न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाऽग्नयः
वैकृतंत्वग्निहोत्रे स लक्षयित्वा महातपाः। तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत्
किंनु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम्। त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः। एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः
रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः। तथाहि निहतः शेते राक्षसेन महात्मना
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा। अग्न्यगारं प्रतिद्वारि मया दोर्भ्यां निवारितः
ततः स विहताशोऽत्रजलकामोशुचिर्ध्रुवम्। निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा
भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत्। गतासुं पुत्रमादाय विललाप सुदुःखितः