तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः। प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति। स लब्धकाम पितरं समेत्याथेदमब्रवीत्
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः। अपि चान्यान्भविष्यावो वरा लब्धास्तथा मया
दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान्। स दर्पपर्णः कृपणः क्षिप्रमेव विनङ्क्ष्यसि
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः। मुनिरासीत्पुरा पुत्र बालधिर्नाम विश्रुतः
स पुत्रशोकादुद्विग्रस्तपस्तेपे सुदुष्करम्। भवेन्मम सुतोऽमर्त्य इतितं लब्धवांश्च सः
तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः। नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः। तावज्जीवेन्मम् सुतो निर्वाणमुत मे मतः
तस्य पुत्रस्तदा जत्रे मेधावी क्रोधनस्तदा। स तु लब्धवरो दर्पादृषींश्चैवावमन्यत
विकुर्वाणो मुनीनां च व्यचरत्स महीमिमाम्। आससाद महावीर्यं धनुषाक्षं मनीषिणम्
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान्। भव भस्मेति चोक्तः स न भस्म समपद्यत
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्। `मुनिस्तत्कारणं ज्ञात्वा स्वयं महिषरूपधृत्। शृङ्गेणाद्रीनचलयत्ततोऽयंभस्मसादभूत्
निमित्तमस्य महर्षिर्भेदयामास पर्वतान्। स निमित्ते विनष्टे तु ममार सहसा शिशुः
तं मृतं पुत्रमादाय विललाप ततः पिता
लालप्यमानं तं दृष्ट्वा मुनयः परमार्तवत्। ऊचुर्वेदविदः सर्वै गाथां यां तां निबोध मे
न दिष्टमर्थमत्येतुमीशोऽमर्त्यः कथंचन। महर्षिर्भेदयामास धनुषाक्षो महीधरान्
एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तपस्विनः। क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान्
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ। तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः
स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा। रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः
एव करिष्ये मा तापं तात कार्षीः कथंचन। यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम
उक्त्वा स पितरं श्लक्ष्ण यवक्रीरकुतोभयः। विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा
चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः। जगाम माधवे मासि रैभ्याश्रमपदं प्रति
स ददर्शाश्रमे रम्ये पुष्पतद्रुमभूषिते। विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत
यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिनि। निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती। तेजस्वितां च रैभ्यस् तथेत्युक्त्वा जगाम ह
तत एकान्तमानीय लज्जयामास भारत। आजगाम तदा रैभ्यः स्वमाश्रममरिंदम
रुदतीं च स्नुषां दृष्ट्वा भार्यामार्ता परावसोः। सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर
सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा। प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथाऽऽत्मना
शृण्वानस्यैव रैभ्यस्य यवक्रेस्तद्विचेष्टनम्। दहन्निव तदा चेतः क्रोधः समभवन्महान्
स तदा मन्युनाऽऽविष्टस्तपस्वी कोपनो भृशम्। अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते