कालेन महता वेदाः शक्या गुरुमुखाद्विभो। प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि। किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात्
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत। भूय एवाकरोद्यत्नं तपस्यमितविक्रमः
घोरेण तपसा राजंस्तप्यमानो महत्तपः। संतापयामास भृशं देवेन्द्रमिति नः श्रुतम्
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम्। उपेत्य बलभिद्देवो वारयामास वै पुनः
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव। प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते
न चैतदेवं क्रियते देवराजसमीप्सितम्। महता नियमेनाहं तप्स्ये घोरतरं तपः
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध। यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम्
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः। प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान्
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः। अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः
यवक्रीतस्य यत्तीर्थमुचितं शैचकर्मणि। भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः
यदाऽस्य वदतो वाक्यं न स चक्रे द्विजोत्तमः। वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन्
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्। स्नातुमभ्यागतं शक्रो यवक्रीतमदर्शयत्
तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने। प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः
किमिदं वर्तते ब्रह्मन्किंच ते ह चिकीर्षितम्। अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति। क्लिश्यते हि जनस्तात तरमाणः पुनःपुनः
नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन। अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ
यथैव भवता चेद तपो वेदार्थमुद्यतम्। अशक्यं तद्वदस्माभिरयं भारः समाहितः
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर। तथा यदि ममापीदं मन्यसे पाकशासन
क्रियतां यद्भवेच्छक्यं त्वया सुरगणेश्वर। वरांश्च मे प्रयच्छान्यासन्यैर्विद्वान्भवितास्म्यहम्
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः। प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति। स लब्धकाम पितरं समेत्याथेदमब्रवीत्
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः। अपि चान्यान्भविष्यावो वरा लब्धास्तथा मया
दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान्। स दर्पपर्णः कृपणः क्षिप्रमेव विनङ्क्ष्यसि
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः। मुनिरासीत्पुरा पुत्र बालधिर्नाम विश्रुतः
स पुत्रशोकादुद्विग्रस्तपस्तेपे सुदुष्करम्। भवेन्मम सुतोऽमर्त्य इतितं लब्धवांश्च सः
तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः। नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः। तावज्जीवेन्मम् सुतो निर्वाणमुत मे मतः
तस्य पुत्रस्तदा जत्रे मेधावी क्रोधनस्तदा। स तु लब्धवरो दर्पादृषींश्चैवावमन्यत
विकुर्वाणो मुनीनां च व्यचरत्स महीमिमाम्। आससाद महावीर्यं धनुषाक्षं मनीषिणम्