एषा मधुविला नाम समङ्गा संप्रकाशते। एतत्कर्दमिलं नाम भरतस्याभिषेचनम्
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः। आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ। अदितिर्यत्रपुत्रार्थं तदन्नमपचत्पुरा
एनं पर्वतराजानमारुह्य भरतर्षभाः। अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ
एते कनखला राजन्नृषीणां दयिता नगाः। एषा प्रकाशते गङ्गा युधिष्ठिर यशस्विनी
सनत्कुमारो भगवानत्र सिद्धिमगात्पुरा। आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे
अपां ह्रदं च पुण्याख्यं भृगुतुन्दं च पर्वतम्। तूष्णीं गङ्गां च कौन्तेय सानुजः समुपस्पृश
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते। अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते। भारद्वाजो यत्रकविर्यवक्रीतो व्यनश्यत
कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्। किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि तत्त्वतः। कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे
भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः। तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू। आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत्। तयोश्चाप्यतुला प्रीतिरभवद्भरतर्षभ
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम्। दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघः
पर्यतप्यत तेजस्वी मन्युनाऽभिपरिप्लुतः। तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन्। जनयामास संतापमिन्द्रस्य सुमहातपाः
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर। अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम्
द्विजानामनधीता वै वेदाः सुरगणार्चित। प्रतिभान्त्विति तप्येहमिदं परमकं तपः
स्वाध्यायार्थं समारम्भो ममायं पाकशासन। तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक
कालेन महता वेदाः शक्या गुरुमुखाद्विभो। प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि। किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात्
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत। भूय एवाकरोद्यत्नं तपस्यमितविक्रमः
घोरेण तपसा राजंस्तप्यमानो महत्तपः। संतापयामास भृशं देवेन्द्रमिति नः श्रुतम्
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम्। उपेत्य बलभिद्देवो वारयामास वै पुनः
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव। प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते
न चैतदेवं क्रियते देवराजसमीप्सितम्। महता नियमेनाहं तप्स्ये घोरतरं तपः
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध। यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम्
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः। प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान्
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः। अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः