तस्मिंस्तथा संकुले वर्तमाने स्फीते यज्ञे जनकस्योत राज्ञः। अष्टावक्रं पूजयन्तोऽभ्युपेयु- र्विप्राः सर्वे प्राञ्जलयः प्रतीताः
अनेनैव ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः प्राक्। तानेव धर्मानयमद्य वन्दी प्राप्नोतु गृह्याशु निमज्जयैनम्
अहं पुत्रो वरुणस्योत राज्ञ- स्तत्रास सत्रं द्वादशवार्षिकं वै। सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाग्र्याः
ते तु सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इम आयान्ति भूयः। अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये
विप्राः समुद्राम्भसि मज्जिता ये वाचा जिता मेधया वा विदानाः। तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः
अग्निर्दहञ्जातवेदाः सतां, गृहान् विसर्जयंस्तेजसा न स्म धाक्षीत्। बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः
श्लेष्मातकी क्षीणवर्चाः शृणोषि उताहो त्वां स्तुतयो मादयन्ति। हस्तीव त्वं स्तुतयो मादयन्ति। न मामिकां वाचमिमां शृणोषि
शृणोमि वाचं तव दिव्यरूपा- ममानुषीं दिव्यरूपोऽसि साक्षात्। अजैषीर्यद्वन्द्विनं त्वं विवादे निसृष्ट एष तव कामोऽद्य वन्दी
नानन जीवता कश्चिदर्थो मे वन्दिना नृप। पिता यद्यस्य वरुणो मज्जयैनं जलाशये
अहं पुत्रो वरुणस्योत राज्ञो न मे भयं विद्यते मज्जितस्य। इमं मुहूर्तं पितरं द्रक्ष्यतेऽय- मष्टावक्रश्चिरनष्टं कहोळम्
ततस्ते पूजिता विप्रा वरुणेन महात्मना। उदतिष्ठंस्ततः सर्वे जनकस्य समीपतः
इत्यर्थमिच्छन्ति सुताञ्जना जननकर्मणा। यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम
उताबलस्य क्लवानुत बालस्य पण्डितः। उत वाऽविदुषो विद्वान्पुत्रो जनक जायते
शितेन ते परशुना स्वयमेवान्तको नृप। शिरांस्यपाहरन्नाजौ रिपूणां भद्रमस्तु ते
महदैक्थ्यं गीयते साम चाग्र्यं सम्यक्सोमः पीयते चात्र सत्रे। शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः साक्षाद्देवा जनकस्येह राज्ञः
समुत्थितेष्वथ सर्वेषु राजन् विप्रेषु तेष्वधिकं सुप्रभेषु। अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत वन्दी
अष्टावक्रः पितरं पूजयित्वा संपूजितो ब्राह्मणैस्तैर्यथावत्। प्रत्याजगामाश्रममेव चाग्र्यं जित्वा वन्दिं सहितो मातुलेन
ततोऽष्टावक्रं मातुरथान्तिके पिता नदीं समङ्गां शीघ्रमिमां विशस्व। प्रोवाच चैनं स तथा विवेश समैरङ्गैश्चापि बभूव पुण्या
नदी समङ्गा च बभूव पुण्या यस्यां स्नातो मुच्यते किल्बिषाद्धि। त्वमप्येनां स्नानपानावगाहैः सभ्रातृकः सहभार्यो विशश्व
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितः सह विप्रैः प्रतीतः। पुण्यान्यन्यानि शुचिकर्मैकभक्ति- र्मया सार्धं चरितास्याजमीढ
एषा मधुविला नाम समङ्गा संप्रकाशते। एतत्कर्दमिलं नाम भरतस्याभिषेचनम्
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः। आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ। अदितिर्यत्रपुत्रार्थं तदन्नमपचत्पुरा
एनं पर्वतराजानमारुह्य भरतर्षभाः। अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ
एते कनखला राजन्नृषीणां दयिता नगाः। एषा प्रकाशते गङ्गा युधिष्ठिर यशस्विनी
सनत्कुमारो भगवानत्र सिद्धिमगात्पुरा। आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे
अपां ह्रदं च पुण्याख्यं भृगुतुन्दं च पर्वतम्। तूष्णीं गङ्गां च कौन्तेय सानुजः समुपस्पृश
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते। अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते। भारद्वाजो यत्रकविर्यवक्रीतो व्यनश्यत
कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्। किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः