यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान्। विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय
यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्। द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय संजय
यदाऽश्रौषं मामकानां वरिष्ठा- न्धनंजयेनैकरथेन भग्नान्। विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय
यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय। तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय
यदाऽश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य। अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय।। 196
यदाऽश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम्। यस्येमां गां विक्रममेकमाहु- स्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य। अहं द्रष्टा ब्रह्मलोके च सम्यक् तदा नाशंसे विजयाय संजय
यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्। शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय संजय।। 199
बुद्धिं कृतां निग्रहे केशवस्य। तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम्। आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम्। भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय
यदा कर्णो भीष्ममुवाच वाक्यं नाहं योत्स्ये युध्यमाने त्वयीति। हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय संजय
यदाऽश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम्। त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय
यदाऽश्रौषं कश्ललेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै। कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय
यदाऽश्रौषं भीष्ममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम्। नैषां कश्चिद्वध्यते ख्यातरूप- स्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण। तच्चाकार्षुः पाण्डवेयाः प्रहृष्टा- स्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्। शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय
यदाऽश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः। भीष्मं कृत्वा सोमकानल्पशेषां- स्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन। भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय
यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय। नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे विजयाय संजय
यदा द्रोणो विविधानस्त्रमार्गा- न्निदर्शयन्समरे चित्रयोधी। न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयायं संजय
यदाऽश्रौषं चास्मदीयान्महारथा- न्व्यवस्थितानर्जुनस्यान्तकाय। संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषं व्यूहमभेद्यमन्यै- र्भारद्वाजेनात्तशस्त्रेण गुप्तम्। भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय
यदाऽभिमन्युं परिवार्य बालं सर्वे हत्त्वा हृष्टरूपा बभूवुः। महारथाः पार्थमशक्नुवन्त- स्तदा नाशंसे विजयाय संजय
यदाऽश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्। क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन। सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान्। पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन। सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य। यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय
यदाऽश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः। धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय