आशानुबन्धो हि तवात्र यत्नः स वन्दिमासाद्यतथा विनश्यति। विज्ञानवन्तो निकृतास्तु तात कथं सदस्तर्तुमिदं समर्थः
विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदन्यभीतः। समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाबलाक्षम्
षण्नाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः। यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः
चतुर्विंशतिपर्व त्वां षणअनाभि द्वादशप्रधि। तत्रिषष्टिशतारं वै चक्रं पातु सदागति
बडबे इव संयुक्ते श्येनपाते दिवौकसाम्। कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम्
मा स्म भूः स्वगृहे राजञ्शात्रवाणामपि ध्रुवम्। वातसारथिराधत्ते गर्भं सुषुवतुश्च तम्
किंस्वित्स्तुप्तं न निमिषति किंस्विज्जातं न चोपति। कस्यखिद्धृदयं नास्ति किंस्विद्वेगेन वर्धते
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति। अश्मनो हृदयं नास्ति नदी वेगेन वर्धते
न त्वां मन्ये मानुषं देवसत्व न त्वं बालः स्थविरः संमतो मे। न ते तुल्यो विद्यते वाक्प्रलापे तस्माद्द्वारं वितराम्येष विद्वन्
अत्रोग्रसेनसमितेषु राजन् समागतेष्वप्रतिमेषु राजसु। न मे विवित्सान्तरमस्ति वादिनां महाजने हंसविवादिनामिव
न मोक्ष्यसे वै वदमानो निमज्जन् जलं प्रपन्नः सरितामिवाधनः। हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य वन्दिन्
व्याघ्रं शयानं प्रति मा प्रबोध आशीविषं सृक्विणी संलिहानम्। पदा हतस्येह शिरोभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध
यो वै दर्पात्संहननोपपन्नः सुदुर्बलः पर्वतमाविहन्ति। तस्यैव पाणिः सनखो विदीर्यते न चैव शैलस्य हि दृश्यते व्रणः
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः। निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा
यथा महेन्द्रः प्रवरः सुराणां नदीषु गङ्गा प्रवरा यथैव। तथा नृपाणां प्रवरस्त्वमेको वन्दिं समभ्यानय मत्सकाशम्
एवमष्टावक्रः समितौ हि गर्ज- ञ्जातक्रोधो वन्दिनमाह राजन्। उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि
एक एवाग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं विभाति। एकोऽवीरो देवराजोऽरिहन्ता यमः पितृणामीश्वरश्चैक एव
द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदपर्वतौ च। द्वावश्विनौ द्वे रथस्यापि चक्रे भार्यापती द्वौ विहितौ विधात्रा
त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति। अध्वर्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः
चतुष्टयं ब्राह्मणानां निकेतं चत्वारो वर्णा यज्ञमिमं वहन्ति। दिशश्चतस्रो वर्णचतुष्टयं च चतुष्पदा गौरपि शश्वदुक्ता
पञ्चाग्नयः पञ्चपदा च पङ्क्ति- र्यज्ञाः पञ्चैवाप्यथ पञ्चेनद्रियाणि। दृष्ट्वा वेदे पञ्चचूडाप्सराश्च लोके ख्यातं पञ्चनदं च पुण्यम्
षडाधाने दक्षिणामाहुरेके षट् चैवेमे ऋतवः कालचक्रम्। षडिन्द्रियाण्युत षट् कृत्तिकाश्च षट् साद्यस्काः सर्ववेदेषु दृष्टाः
सप्त ग्राम्याः पशवः सप्त वन्याः सप्त च्छन्दांसि क्रतुमेकं वहन्ति। सप्तर्षयः सप्त चाप्यर्हणानि सप्तन्त्री प्रथिता चैव वीणा
अष्टौ शाणाः शतमानं वहन्ति तथाष्टपादः शरभः सिंहघाती। अष्टौ वसूञ्शुश्रुम देवतासु यूपश्चाष्टास्रिर्विहितः सर्वयज्ञे
नवैवोक्ताः सामिधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम्। नवाक्षरा बृहती संप्रदिष्टा नवैव योगो गणनामेति शश्वत्
दिशो दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दशपूर्णं शतानि। दशैव मासान्बिभ्रति भर्गवत्यो दशैरका दशदाशा दशार्हाः
एकादशैकादशिनः पशूना- मेकादशैवात्र भवन्ति यूपाः। एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः
संवत्सरं द्वादशमासमाहु- र्जगत्याः पादो द्वादशैवाक्षराणि। द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह घीराः
एतावदुक्त्वा विरराम वन्दी श्लोकस्यार्धं व्याजहाराष्टवक्रः
ततो महानुदतिष्ठन्निनाद- स्तूष्णींभूतं सूतपुत्रं निशम्य। अधोमुखं ध्यानपरं तदानी- मष्टावक्रं चाप्युदीर्यन्तमेव