दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि। निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने
द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः। सह वादे विवृद्धे तु वन्दिनं चापि निर्जितम्
पश्यन्तु विप्राः परिपूर्णविद्याः सहैव राज्ञा सपुरोधमुख्याः। उताहो वाऽप्युच्चतां नीचतां वा तूष्णींभूतेष्वेव सर्वेष्वथाद्य
कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां संप्रवेशम्। उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत्
एष राजा संश्रवणे स्थितस्ते स्तुह्येनं त्वं वचसा संस्कृतेन। स चानुज्ञां दास्यति प्रीतियुक्तः प्रवेशने यच्च किंचित्तवेष्टम्
भोभो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम्। त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात्
विद्वान्वन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः। त्वयाऽभिसृष्टैः पुरुषैराप्तकृद्भि- र्जले सर्वान्मज्जयतीति नः श्रुतम्
सोऽहं श्रुत्वा ब्राह्मणानां सकाशे ब्रह्माद्य वै कथयितुमागतोस्मि। क्वासौ वनदी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि
आशंससे वन्दिनं वै विजेतु- मविज्ञाय त्वं वाक्यबलं परस्य। विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वादशीलैः
आशंसमाना वन्दिनं वै बिजेतु- मविज्ञात्वा तु बलं वन्दिनोऽस्य। समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः
आशानुबन्धो हि तवात्र यत्नः स वन्दिमासाद्यतथा विनश्यति। विज्ञानवन्तो निकृतास्तु तात कथं सदस्तर्तुमिदं समर्थः
विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदन्यभीतः। समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाबलाक्षम्
षण्नाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः। यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः
चतुर्विंशतिपर्व त्वां षणअनाभि द्वादशप्रधि। तत्रिषष्टिशतारं वै चक्रं पातु सदागति
बडबे इव संयुक्ते श्येनपाते दिवौकसाम्। कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम्
मा स्म भूः स्वगृहे राजञ्शात्रवाणामपि ध्रुवम्। वातसारथिराधत्ते गर्भं सुषुवतुश्च तम्
किंस्वित्स्तुप्तं न निमिषति किंस्विज्जातं न चोपति। कस्यखिद्धृदयं नास्ति किंस्विद्वेगेन वर्धते
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति। अश्मनो हृदयं नास्ति नदी वेगेन वर्धते
न त्वां मन्ये मानुषं देवसत्व न त्वं बालः स्थविरः संमतो मे। न ते तुल्यो विद्यते वाक्प्रलापे तस्माद्द्वारं वितराम्येष विद्वन्
अत्रोग्रसेनसमितेषु राजन् समागतेष्वप्रतिमेषु राजसु। न मे विवित्सान्तरमस्ति वादिनां महाजने हंसविवादिनामिव
न मोक्ष्यसे वै वदमानो निमज्जन् जलं प्रपन्नः सरितामिवाधनः। हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य वन्दिन्
व्याघ्रं शयानं प्रति मा प्रबोध आशीविषं सृक्विणी संलिहानम्। पदा हतस्येह शिरोभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध
यो वै दर्पात्संहननोपपन्नः सुदुर्बलः पर्वतमाविहन्ति। तस्यैव पाणिः सनखो विदीर्यते न चैव शैलस्य हि दृश्यते व्रणः
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः। निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा
यथा महेन्द्रः प्रवरः सुराणां नदीषु गङ्गा प्रवरा यथैव। तथा नृपाणां प्रवरस्त्वमेको वन्दिं समभ्यानय मत्सकाशम्
एवमष्टावक्रः समितौ हि गर्ज- ञ्जातक्रोधो वन्दिनमाह राजन्। उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि
एक एवाग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं विभाति। एकोऽवीरो देवराजोऽरिहन्ता यमः पितृणामीश्वरश्चैक एव
द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदपर्वतौ च। द्वावश्विनौ द्वे रथस्यापि चक्रे भार्यापती द्वौ विहितौ विधात्रा
त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति। अध्वर्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः
चतुष्टयं ब्राह्मणानां निकेतं चत्वारो वर्णा यज्ञमिमं वहन्ति। दिशश्चतस्रो वर्णचतुष्टयं च चतुष्पदा गौरपि शश्वदुक्ता