ररक्ष सा चापि तमस् मन्त्रं जातोऽप्यसौ नैव शुश्राव विप्रः। उद्दालकं पितरं सोऽभिमेने तथाऽष्टावक्रो भ्रातरं श्वेतकेतुम्
ततो वर्षे द्वादशे श्वेतकेतु- रष्टावक्रं पितुरङ्के निषण्णम्। अपाकर्षद्गृह्यपाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च
यत्तेनोकतं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत्। गृहं गत्वा मातरं सोऽथ विग्रः पप्रच्छेदं क्व नु तातो ममेति
ततः सुजाता परमार्तरूपा शापाद्भीता तत्त्वमस्याचचक्षे। तद्वै तत्त्वंसर्वमाज्ञाय रात्रा- वित्यब्रवीच्छ्वेतकेतुं स विप्रः
गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः। श्रोष्यावोऽत्र ब्राह्मणानां विवाद- मन्नं चाग्र्यं तत्रभोक्ष्यावहे च
विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः
तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जमकस्य राज्ञः। अष्टावक्रः पथि राज्ञा समेत्य प्रोत्सार्यमाणो वाक्यमिदं जगाद
अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवाहस्य पन्थाः। राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः
पन्था अयं तेऽद्य मया निसृष्टो येनेच्छसे तेन कामं व्रजस्व। न पावको विद्यते वै लघीया- निन्द्रोपि नित्यं नमते ब्राह्मणानाम्
स एवमुक्तो मातुलेनैव सार्धं यथेष्टमार्गो यज्ञनिवेशनं तत्। संप्राप्य धर्मेण निवारितः सन् द्वारि द्वाःस्थं वाक्यमिदं बभाषे
यज्ञं द्रष्टुं प्राप्तवन्तौ स्म तात कौतूहलं बलवद्वै विवृद्धम्। आवां प्राप्तावतिथी संप्रवेशं काङ्क्षावहे द्वारपते तवाज्ञाम्
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षू। न वै क्रुध्यो वन्दिना चोत्तमेन संयोजय द्वारपाल क्षणेन
वन्देः समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम्। न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विदग्धाः प्रविशन्ति द्विजाग्र्याः
यद्यत्रवृद्धेषु कृतः प्रवेशो युक्तं मया द्वारपाल प्रवेष्टुम्। वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेन समन्विताश्च
शुश्रूषवश्चापि जितेन्द्रियाश्च ज्ञानागमे चापि गताः स्म निष्ठाम्। न बाल इत्येव मन्तव्यमाहु- र्बालोऽप्यग्निर्दहति स्पृश्यमानः
सरस्वतीमीरय वेद जुष्टा- मेकाक्षरां बहुरूपां विराजम्। अङ्गात्मानं समवेक्षस्व बालं किं श्लाघसे दुर्लभा वादसिद्धिः
न ज्ञायते कायवृद्ध्या विवृद्धि- र्यथाऽष्ठीला शाल्मलेः संप्रवृद्धाः। ह्रस्वोऽल्पकायः फलितो विवृद्धो यश्चाफलस्तस्य न वृद्धभावः
वृद्धेभ्य एवेह मतिं स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः। न हि ज्ञातुमल्पकालेन शक्यं कस्माद्बालः स्थविर इव प्रभाषसे
न तेन स्थविरो भवति येनास्य पलितं शिरः। बालोपि यः प्रजानाति तं देवाः स्थविरं विदुः
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः। ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्
दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि। निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने
द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः। सह वादे विवृद्धे तु वन्दिनं चापि निर्जितम्
पश्यन्तु विप्राः परिपूर्णविद्याः सहैव राज्ञा सपुरोधमुख्याः। उताहो वाऽप्युच्चतां नीचतां वा तूष्णींभूतेष्वेव सर्वेष्वथाद्य
कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां संप्रवेशम्। उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत्
एष राजा संश्रवणे स्थितस्ते स्तुह्येनं त्वं वचसा संस्कृतेन। स चानुज्ञां दास्यति प्रीतियुक्तः प्रवेशने यच्च किंचित्तवेष्टम्
भोभो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम्। त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात्
विद्वान्वन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः। त्वयाऽभिसृष्टैः पुरुषैराप्तकृद्भि- र्जले सर्वान्मज्जयतीति नः श्रुतम्
सोऽहं श्रुत्वा ब्राह्मणानां सकाशे ब्रह्माद्य वै कथयितुमागतोस्मि। क्वासौ वनदी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि
आशंससे वन्दिनं वै विजेतु- मविज्ञाय त्वं वाक्यबलं परस्य। विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वादशीलैः
आशंसमाना वन्दिनं वै बिजेतु- मविज्ञात्वा तु बलं वन्दिनोऽस्य। समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः