येनेमं स्थापयेथास्त्वं कर्मणा पक्षिसत्तम। तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्
उशीनर कपोते ते यदि स्नेहो नराधिप। आत्मनो मांसमुत्कृत्य कपोततुलया धृतम्
यदा समं कपोतेन तव मांसं नृपोत्तम। त्वया प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे। तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम्
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित्। तुलयामास कौन्तेय कपोतेन समं विभो
ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते। पुनश्चोत्कृत्यमांसानि राजा प्रादादुशीनरः
न विद्यते यदा मांसं कपोतेन समं धृतम्। तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम्। जिज्ञासमानौ धर्म त्वां यज्ञवाटमुपागतौ
यत्ते मांसानि गात्रेभ्य उक्तृत्तानि विशांपते। एषा ते शाश्वती कीर्तिर्लोकानभिभविष्यति
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव। तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः
इत्युक्त्वा भूमिपतये तस्मै दत्त्वा यथेप्सितम्। प्रशस्य जग्मतू राजन्निन्द्राग्री तुष्टमानसौ
उशीनरोऽपिधर्मात्मा धर्मेणावृत्यरोदसी। विभ्राजमानो वपुषाऽप्यारुरोह त्रिविष्टपम्
तदेतत्सदनं राजन्राज्ञस्तस्य महात्मनः। पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम्
तत्र वै सततं देवा मुनयश्च सनातनाः। दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः
यः कथ्यते मन्त्रविदग्र्यबुद्धि- रौद्दालकिः श्वेतकेतुः पृथिव्याम्। तस्याश्रमं पश्यत पाण्डवेया सदाफलैरुपपन्नं महीजैः
साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम्। वेत्स्यामि वाणीमिति संप्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे
अस्मिन्युगे ब्रह्मकृतां वरिष्ठा- वास्तां मुनी मातुलभागिनेयौ। अष्टावक्रश्चैव कहोलसूनु- रौद्दालकिः श्वेतकेतुः पृथिव्याम्
विदेहराजस् समीपतस्तौ घीरावुभौ मातुलभागिनेयौ। प्रविश्य यज्ञायतनं विवादे वन्दिं निजग्राहतुरप्रमेयौ
वादे भङ्क्त्वा मज्जयामास नद्याम्
कथंप्रभावः स बभूव विप्र- स्तथाभूतं यो निजग्राह वन्दिम्। `किंचाधिकृत्याथ तयोर्विवादो विदेहराजस् समीप आसीत्
अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम्
उद्दालकस्य नियतः शिष्य एको नाम्ना कहोळेति बभूव राजन्। शुश्रूषुराचार्यवशानुवर्ती दीर्घ कालं सोऽध्ययनं चकार
तं वै विप्राः पर्यभवंस्तु शिखा- स्तं च ज्ञात्वा विप्रकारं गुरुः सः। तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम्
तस्यां गर्भः समभवदग्निकल्पः सोऽधीयानं पितरमथाभ्युवाच। सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते
उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप। यस्माद्वक्रं वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टधैव
स वै तथा वक्र एवाभ्यजाय- दष्टावक्रः प्रथितो मानवेषु। अस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव
संपीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ। उवाच भर्तारमिदं रहोगता प्रसाद्य हीना वसुना धनार्थिनी
कथं करिष्याम्यधुना महर्षे मासश्चायं दशमो वर्तते मे। नैवास्ति मे वसु किंचित्प्रदाता येंनाहमेतामापदं निस्तरेयम्
उक्तस्त्वेवं भार्यया वै कहोळो वित्तस्यार्थे जनकमथाभ्यगच्छत्। स वै तदा वादविदा निगृह्य निमज्जितो वन्दिनेहाप्सु विप्रः
उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु निमज्जितं तथा। उवाच तां तत्रततः सुजात- मष्टवक्रे गूहितव्योऽयमर्थः