गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये। यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम्
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम। सुपर्णः पक्षिराट् किं त्वं धर्मं ज्ञात्वाऽभिभाषसे
तथाहि धर्मसंयुक्तं बहुचित्रं च भाषसे। न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम्। शरणैषिपरित्यागं कथं साध्विति मन्यसे
आहारार्थं समारम्भस्तव चायं विहंगम। शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया
गोवृषो वा वराहो वा मृगो वा महिषोपि वा। त्वदर्थमद्य क्रियतां यच्चान्यदिह काङ्क्षसि
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा। भक्षयामि महाराज किं ममान्येन केचचित्
यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव। तमुत्सृज महीपाल कपोतमिममेव मे
श्येनाः कपोतान्स्वादन्ति श्रुतिरेषा सनातनी। मा राजन्सारमज्ञात्वा कदलीस्कन्धमासज
राष्ट्रं शिवीनामृद्धं वै शाधि पक्षिभिरर्चितः। कृत्स्नमेतन्मया दत्तं राजवद्विहगोत्तम
यं वा कामयसे कामं श्येन सर्वं ददानि ते। विनेमं पक्षिणं श्यन शरणार्थिनमागतम्
येनेमं स्थापयेथास्त्वं कर्मणा पक्षिसत्तम। तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्
उशीनर कपोते ते यदि स्नेहो नराधिप। आत्मनो मांसमुत्कृत्य कपोततुलया धृतम्
यदा समं कपोतेन तव मांसं नृपोत्तम। त्वया प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे। तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम्
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित्। तुलयामास कौन्तेय कपोतेन समं विभो
ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते। पुनश्चोत्कृत्यमांसानि राजा प्रादादुशीनरः
न विद्यते यदा मांसं कपोतेन समं धृतम्। तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम्। जिज्ञासमानौ धर्म त्वां यज्ञवाटमुपागतौ
यत्ते मांसानि गात्रेभ्य उक्तृत्तानि विशांपते। एषा ते शाश्वती कीर्तिर्लोकानभिभविष्यति
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव। तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः
इत्युक्त्वा भूमिपतये तस्मै दत्त्वा यथेप्सितम्। प्रशस्य जग्मतू राजन्निन्द्राग्री तुष्टमानसौ
उशीनरोऽपिधर्मात्मा धर्मेणावृत्यरोदसी। विभ्राजमानो वपुषाऽप्यारुरोह त्रिविष्टपम्
तदेतत्सदनं राजन्राज्ञस्तस्य महात्मनः। पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम्
तत्र वै सततं देवा मुनयश्च सनातनाः। दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः
यः कथ्यते मन्त्रविदग्र्यबुद्धि- रौद्दालकिः श्वेतकेतुः पृथिव्याम्। तस्याश्रमं पश्यत पाण्डवेया सदाफलैरुपपन्नं महीजैः
साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम्। वेत्स्यामि वाणीमिति संप्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे
अस्मिन्युगे ब्रह्मकृतां वरिष्ठा- वास्तां मुनी मातुलभागिनेयौ। अष्टावक्रश्चैव कहोलसूनु- रौद्दालकिः श्वेतकेतुः पृथिव्याम्
विदेहराजस् समीपतस्तौ घीरावुभौ मातुलभागिनेयौ। प्रविश्य यज्ञायतनं विवादे वन्दिं निजग्राहतुरप्रमेयौ
वादे भङ्क्त्वा मज्जयामास नद्याम्
कथंप्रभावः स बभूव विप्र- स्तथाभूतं यो निजग्राह वन्दिम्। `किंचाधिकृत्याथ तयोर्विवादो विदेहराजस् समीप आसीत्