प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे। अपि तत्कर्म विदितं भवतां येन पन्नगम्
तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्। यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना।। तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्
अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम्। सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप। इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम्। हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा। आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे
ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम। तं देशं मापयामासुर्यज्ञायतनकारणात्
यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः। ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्। निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा। इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा। यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः। इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता। ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः
एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत्। क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति
ततः कर्म प्रववृते सर्पसत्रविधानतः। पर्यक्रामंश्च विदिवत्स्वे स्वे कर्मणि याजकाः
प्रावृत्य कृष्णवासांसि धूम्रसंरक्तलोचनाः। जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च। सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने। विचेष्टमानाः कृपणमाह्वयन्तः परस्परम्
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम्। पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा। नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ
क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः। पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च। अवशानि विनष्टानि पन्नगानां तु तत्र वै
तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे। मत्ता इव च मातङ्गा महाकाया महाबलाः
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः। घोराश्च परिघप्रख्या दन्दशूका महाबलाः। प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः। जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे। विषादजननेऽत्यर्थं पन्नगानां महाभय
सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति। सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज
हन्त ते कथयिष्यामि नामानीह मनीषिणाम्। ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः। च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सौऽथ जैमिनिः। ब्र्हमाऽभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः