एतत्प्रकाशते तीर्थं प्रभासं भास्करद्युते। इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम्
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्। एषां रम्या विपाशा च नदी परमपावनी
अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः। बद्ध्वाऽत्मानं निपतितो विपाशः पुनरुत्थितः
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम। महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह
यत्रौत्तराणां सर्वेषामृषीणां नाहुषस्य च। अग्नेश्चैवात्र संवादः काश्यपश्य च भारत
एतद्द्वारं महाराज मानसस्य प्रकाशते। वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम्
एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः। नात्यवर्तत यद्द्वारं विदेहादुत्तरं च यः
इदमाश्चर्यमपरं देशेऽस्मिन्पुरुषर्षभ। क्षीणे युगे तु कौन्तेय शर्वस्य सह पार्षदैः। सहोमया च भवति दर्शनं कामरूपिणः
अस्मिन्सरसि सत्रैर्वै चैत्रे मासि पिनाकिनम्। यजन्ते याजकाः सम्यक् परिवारं शुभार्थिनः
अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः। क्षीणपापः शुभाँल्लोकान्प्राप्नुते नात्र संशयः
एष उज्जानको नाम पावकिर्यत्र शान्तवान्। अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः
ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम्। आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया। तं द्रक्ष्यसि महाराज भृगुतुन्दं महागिरिम्
वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम्। महर्षिभिश्चाध्युषितां शीततोयां सुनिर्मलाम्
जलां चोपजलां चैव यमुनामभितो नदीम्। उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत
तां देवसमितिं तस्य वासवश्च विशांपते। अभ्यागच्छन्नृपवरं ज्ञातुमग्निश्च भारत
जिज्ञासमानौ वरदौ महात्मानमुशीनरम्। इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः
उरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात्। शरणार्थी तदा राजन्निलिल्ये भयपीडितः
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः। स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा। माहिंसीर्धर्मलोभेन धर्ममुत्सृज्य मा नशः
संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज। मत्सकाशमनुप्रप्तः प्राणगृध्नुरयं द्विजः
एवमभ्यागतस्येह कपोतस्याभयार्थिनः। अप्रदाने परो धर्मः किं त्वं श्येनेह पश्यसि
प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते। मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः
[यो हि कश्चिद्द्विजान्हन्याद्गां वा लोकस्य मातरम्। शरणागतं च त्यजते तुल्यं तेषां हि पातकम्]
आहारत्सर्वभूतानि संभवन्ति महीपते। आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्। न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम्
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशांपते। विसृज्यकायमेष्यन्ति पन्थानमपुनर्भवम्
प्रमृते मयि धर्मात्मन्पुत्रदारादि नङ्क्ष्यति। रक्षमाणः कपोतं त्वं बहून्प्राणान्न रक्षसि
बहून्यो बाधते धर्मो न स धर्मः कुवर्त्म तत्। अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम
विरोधिषु महीपाल निश्चित्य गुरुलाघवम्। न बाधा विद्यते यत्र तं धर्मं समुपाचरेत्