एकरात्रमुवित्वेह द्वितीयं यदि वत्स्यसि। एतद्वै ते गदेवावृत्तं रात्रौ वृत्तमितोऽन्यथा
अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम। द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्। ययातिर्बहुरत्नौर्घर्यत्रेन्द्रो मुदमभ्यगात्
एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम्। एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः
अत्रसारस्वतैर्यज्ञैरीजानाः परमर्षयः। यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम्
अत्रवै भरतो राजा राजन्क्रतुभिरिष्टवान्। हयमेधेन यज्ञेन मेध्यमश्वमवासृजत्
असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम्। अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्। प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः
अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति। पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः। लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत्
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम। इहस्तः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम्
एवमेतन्महाबाहो पश्यन्ति परमर्षयः। इह स्नात्वा तपोयुक्तांस्त्रील्लोँकान्सचराचरान्
सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम्। यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः। ऋषयश्चैव कौन्तेय तथा राजर्षयोपि च
वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना। कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः
इह मर्त्यास्तनूस्त्यक्त्वा स्वर्गं गच्छन्ति भारत। मर्तुकामा नरा राजन्निहायान्ति सहस्रशः
एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा। इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः
एषा सरस्वती रम्या दिव्या चौघवती नदी। एतद्विनशनं नाम सरस्वत्या विशांपते
द्वारं निषादराष्ट्रस्य येषां दोषात्सरस्वती। प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः
एष वै चमसोद्भेदो यत्र दृश्या सरस्वती। यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः
एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम। लोपामुद्रा समागम्य भर्तारमवृणीत वै
एतत्प्रकाशते तीर्थं प्रभासं भास्करद्युते। इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम्
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्। एषां रम्या विपाशा च नदी परमपावनी
अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः। बद्ध्वाऽत्मानं निपतितो विपाशः पुनरुत्थितः
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम। महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह
यत्रौत्तराणां सर्वेषामृषीणां नाहुषस्य च। अग्नेश्चैवात्र संवादः काश्यपश्य च भारत
एतद्द्वारं महाराज मानसस्य प्रकाशते। वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम्
एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः। नात्यवर्तत यद्द्वारं विदेहादुत्तरं च यः
इदमाश्चर्यमपरं देशेऽस्मिन्पुरुषर्षभ। क्षीणे युगे तु कौन्तेय शर्वस्य सह पार्षदैः। सहोमया च भवति दर्शनं कामरूपिणः
अस्मिन्सरसि सत्रैर्वै चैत्रे मासि पिनाकिनम्। यजन्ते याजकाः सम्यक् परिवारं शुभार्थिनः
अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः। क्षीणपापः शुभाँल्लोकान्प्राप्नुते नात्र संशयः