प्रणम्योत्थाय सहसा बद्धाञ्जलिपुटो मुनिः। तुष्टाव विविधैः स्तोत्रैर्महादेवं जगत्पतिम्
तमुवाच महादेवो मार्कण्डेयं महामुनिम्। वरं वरय भद्रं ते वरदोस्मि मुने तव
एवं संबोधितस्तेन शिवेन परमात्मना। सगद्गदमिदं वाक्यमुवाच परमेश्वरम्
नान्यं वरं वृणे शंभो ---त्वत्पादपङ्कजे। भक्तिंह्यनन्यसुलभां स्व व्यभिचारिणीम्
एवमुक्तोऽथ मुनिना भरतगीश्वरेश्वरः। पुनरेवाब्रवीद्वाक्यं मार्कण्डेय महामुनिम्
सम्यगाराधितः पित्रा तव पुत्रार्थमादरात्
शतायुर्निर्गुणः पुत्रः शुभः षोडशवार्षिकः। उभयोरन्यमिच्छ त्वमित्युक्तः सोऽब्रवीच्च माम्
निर्गुणो मास्तु देवेश शतायुः षोडशाब्दकः। सुगुणोऽस्तु सुतो मेऽद्य इति पित्रावृत पुरा
त्वया तप्तेन तपसा तोषितोऽहं भृशं मुने। दीर्घमायुर्मया दत्तं मृत्युश्च प्रतिषेधितः
इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत। तस्यायमाश्रमः पुण्यस्तस्येमे मुनयोऽमलाः
अत्रैकरात्रमुषिताः सर्वे मृत्युं तरन्ति वै। अत्रैव भरतश्रेष्ठ प्रयतो वस भूमिप
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः। सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम्
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु। यत्रेष्ट्वा दशपद्मानि सदस्येभ्योऽभिसृष्टवान्
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः। देशश्च नाहुषस्यायं य़ज्वनः पुण्यकर्मणः
सार्वभौमस्य कौन्तेय ययातेरमितौजसः। स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह
पश्य नानाविधाकारैरग्निभिर्निचितां महीम्। मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः
एषा शम्येकपत्रा सा शकटं चैतदुत्तमम्। पश्य रामह्रदानेतान्पश्य नारायणाश्रमम्
एतच्चर्चीकपुत्रस्य योगैर्विचरतो महीम्। प्रसर्पणं महीपाल रौप्यायाममितौजसः
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन। उलूखलैराभरणैः पिशची यदभाषत
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले। तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि
एकरात्रमुवित्वेह द्वितीयं यदि वत्स्यसि। एतद्वै ते गदेवावृत्तं रात्रौ वृत्तमितोऽन्यथा
अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम। द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्। ययातिर्बहुरत्नौर्घर्यत्रेन्द्रो मुदमभ्यगात्
एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम्। एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः
अत्रसारस्वतैर्यज्ञैरीजानाः परमर्षयः। यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम्
अत्रवै भरतो राजा राजन्क्रतुभिरिष्टवान्। हयमेधेन यज्ञेन मेध्यमश्वमवासृजत्
असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम्। अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्। प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः
अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति। पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः। लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत्
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम। इहस्तः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम्