बहुपुष्पफलोपेतं मुनिसङ्घैर्निषेवितम्। स्रवन्त्या च समायुक्तं महत्या पुण्यतोयया
ऋषीणामाश्रमाः पुण्या दृश्यन्ते विविधा मुने। कस्यायमाश्रमः पुण्यः कस्येमे मुनयोऽमलाः। एतदिच्छाम्यहं श्रोतुं वद त्वं वदतांवर
शृणु राजेनद्र भद्रं ते वनस्यास्य पुरातनम्। वृत्तान्तं निखिलेनाद्य प्रोच्यमानं मयाऽनघ
मृकण्डुपुत्रो मेधावी मार्कण्डेयो महामुनिः। बाल एव महाबुद्धिः सर्वविद्याविशारदः
मातापित्रोः प्रियं कुर्वंस्तपोर्थं वनमाविशत्। अत्राश्रमपदं कृत्वा तपस्तेपे सुदारुणम्
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः। जलस्थः शिशिरे योगी बहुकालमवर्तत
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः। जितेन्द्रियो जितप्राणश्चिन्तयन्दृढमव्ययम्। अनाहारो जितक्रोधश्चिरमेवमवर्तत
एतस्मिन्नन्तरे राजन्ननावृष्टिः सुदारुणा। संभूता सर्वसंहर्त्री तया दग्धं चराचरम्
अनावृष्ट्यां प्रवृत्तायां सर्वे च निधनं गताः। केचिदन्ये महात्मानो मुनयो द्विजपुङ्गवाः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा सर्वाश्च योषितः। पशुपक्षिमृगाः सर्वे क्षुत्पिपासासमाकुलाः। कृशाः शुष्कोष्ठकण्ठाश्च श्रान्ता भ्रान्ता विचेतसः
केनचित्पुण्यशेषेण मार्कण्डेयस्य धीमतः। आश्रमं शनकैः प्राप्ता मूर्च्छिताः सहसाऽपतन्
समाधिविरतो योगी मार्कण्डेयो महातपाः। तद्वनं निबिडं दृष्ट्वा जनैः क्षुत्तृट्समाकलैः
दयार्द्रहृदयो योगी शिवं ध्यात्वा हृदम्बुजे। तेषां संरक्षणार्थाय वेदगन्धिस्वरेण सः। आजुहाव तदा गङ्गां तपोयोगेन भारत
गङ्गा समागता शीघ्रं तेनाहूताऽतिपावना। नाम्ना वेदनदीत्येव प्रख्याता लोकपावना
पर्जन्यश्च समाहूतः सुखं वर्षति भारत। सस्यानि च समृद्धानि फलमूलान्यनेकशः। संभूतान्यत्रराजेनद्र सर्वे ते रक्षिता जनाः
मार्कण्डेयं प्रशंसन्तो जनाः सर्वे द्विजात्तयः। चिरं सुखमवर्तन्त तेन संरक्षिता नृप
एवं विधाय रक्षां स सर्वेषां पुण्यकर्मणाम्। पुनश्चचार च तपः परमेश्वरतुष्टये
एवं बहुतिथे काले प्रादुरासीन्महेश्वरः
दृष्ट्वा च सर्वदेवेशं चन्द्रमौलिमुमापतिम्। ब्रह्मविष्ण्वादिभिर्देवैः सिद्धविद्याधरोरगैः
गन्धर्वयक्षप्रवरैः सकिन्नरपतत्रिभिः। स्तूयमानं महादेवमव्ययं निष्कलं शिवम्। प्रणनाम मुनिर्भक्त्या साष्टाङ्गं च पुनः पुनः
प्रणम्योत्थाय सहसा बद्धाञ्जलिपुटो मुनिः। तुष्टाव विविधैः स्तोत्रैर्महादेवं जगत्पतिम्
तमुवाच महादेवो मार्कण्डेयं महामुनिम्। वरं वरय भद्रं ते वरदोस्मि मुने तव
एवं संबोधितस्तेन शिवेन परमात्मना। सगद्गदमिदं वाक्यमुवाच परमेश्वरम्
नान्यं वरं वृणे शंभो ---त्वत्पादपङ्कजे। भक्तिंह्यनन्यसुलभां स्व व्यभिचारिणीम्
एवमुक्तोऽथ मुनिना भरतगीश्वरेश्वरः। पुनरेवाब्रवीद्वाक्यं मार्कण्डेय महामुनिम्
सम्यगाराधितः पित्रा तव पुत्रार्थमादरात्
शतायुर्निर्गुणः पुत्रः शुभः षोडशवार्षिकः। उभयोरन्यमिच्छ त्वमित्युक्तः सोऽब्रवीच्च माम्
निर्गुणो मास्तु देवेश शतायुः षोडशाब्दकः। सुगुणोऽस्तु सुतो मेऽद्य इति पित्रावृत पुरा
त्वया तप्तेन तपसा तोषितोऽहं भृशं मुने। दीर्घमायुर्मया दत्तं मृत्युश्च प्रतिषेधितः
इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत। तस्यायमाश्रमः पुण्यस्तस्येमे मुनयोऽमलाः