श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति। निश्चितेयं मम मतिर्या च तां मे निबोधत। अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता। शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्। यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः। काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्। संजिजीवयिषुं प्राप्तं राजानमपराजितम्
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः। द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति
उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्। भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमीदितः। आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा। पुरोहितमथाहूय ऋत्विजो वसुधाधिपः
अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः। यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे। अपि तत्कर्म विदितं भवतां येन पन्नगम्
तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्। यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना।। तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्
अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम्। सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप। इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम्। हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा। आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे
ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम। तं देशं मापयामासुर्यज्ञायतनकारणात्
यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः। ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्। निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा। इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा। यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः। इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता। ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः
एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत्। क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति
ततः कर्म प्रववृते सर्पसत्रविधानतः। पर्यक्रामंश्च विदिवत्स्वे स्वे कर्मणि याजकाः
प्रावृत्य कृष्णवासांसि धूम्रसंरक्तलोचनाः। जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च। सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने। विचेष्टमानाः कृपणमाह्वयन्तः परस्परम्
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम्। पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा। नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ