अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत्। यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक
कार्यं वा यदि वाऽकार्यं येन पुत्रशतं भवेत्। कृतमेवेति तद्विद्धि भगवान्प्रब्रवीतु मे
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ। ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते
वपार्या हूयमानायां धूममाघ्राय मातरः। ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान्
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः। उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति
ब्रह्मन्यद्यद्यथा कार्यं तत्कुरुष्व तथातथा। पुत्रकामतया सर्वंकरिष्यामि वचस्तव
ततः स याजयामास सोमकं तेन जन्तुना। मातरस्तु बलातपुत्रमपाकार्षुः कृपान्विताः
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः। तं मातरः प्त्यकर्षन्गृहीत्वा दक्षिणे करे
सव्ये पाणौ गृहीत्वा तु याजकोपि स्म कर्षति। कुररीणामिवार्तानामपाकृष्य तु तं सुतम्
विशस्य चैनं विधिवद्वपामस्य जुहाव सः। वपायां हूयमानायां गन्धमाघ्राय मातरः
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन। सर्वाश्च गर्भानलबंस्ततस्ताः पार्थिवाङ्गनाः
ततो दशसु मासेषु सोमकस्य विशांपते। जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत
जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव पूर्ववत्। स तासामिष्ट एवासीन्न तथाऽन्ये निजाः सुताः
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे। तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैरपि
ततः स लोकमगमत्सोमकस्य गुरुः परम्। अन्वक्षमेव पश्चात्तु सोमकोप्यगमत्परम्
अथ तं नरके घोरे पच्यमानं ददर्श सः। तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज
तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम्। त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम्
एतच्छ्रुत्वा स राजर्षिर्धर्मराजमथाब्रवीत्। अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः
मत्कृते हि महाभागः पच्यते नरकाग्निना। `सोहमात्मानमाधास्ये नरके मुच्यतां गुरुः
नान्य कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन। इमानि तव दृश्यन्ते फलानि वदतांवर
पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम्। इच्छाम्यहमननैव सह वस्तुं सुरालये
नरके वा धर्मराज कर्मणाऽस्य समो ह्यहम्। पुण्यापुण्यफलं देव सममस्त्वावयोरिदम्
यद्येवमीप्सितं राजन्भुङ्खास्य सहितः फलम्। तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम्
स चकार तथा सर्वं राजा राजीवलोचनः। क्षीणपापश्च तस्मात्स विमुक्तो गुरुणा सह
लेभे कामाञ्शुभान्राजन्कर्मणा निर्जितान्स्वयम्। सह तेनैव विप्रेण गुरुणा स गुरुप्रियः
एष तस्याश्रमः पुण्यो य एषोग्रे विराजते। क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः
एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः। षड्रात्रं नियतात्मानः स़ज्जीभव कुरूद्वह
सोमकस्याश्रमे पुण्ये धर्मराजो युधिष्ठिरः। षड्रात्रमुष्य नियतो भ्रात्रादिभिररिंदमः। तस्मान्निर्गम्य सहसा दिशं प्रायात्तथोत्तराम्
बहुदूरं ततो गत्वा वनं तत्र मनोहरम्। बहुपष्पफलाकीर्णं महानद्युपशोभितम्
दृष्ट्वा पप्रच्छ राजाऽसौ लोमशं मुनिसत्तमम्। किमिदं दृश्यते रम्यं वनं बहुमृगद्विजम्